________________
- 50000OHDMOVoonoponnoonomohnoonanoononomooonomomonal
अद्यापि कर्णविकलेति न लभ्यते यत् तेनाऽद्भुतं सचिवपुङ्गववस्तुपाल ! ॥ २५१ ।। कश्चित्तु- क्रमेण मन्दीकृतकर्णशक्तिः प्रकाशयन्तीव बलिखभावम् ।
कैर्नाऽनुभूता सशिरःप्रकम्पं जरेव दत्तिस्तव वस्तुपाल ! ॥ २५२ ॥ तेभ्यः कविम्यः सहस्रं ददौ ॥ हंसैलब्धप्रशंसैस्तरलितकमलप्रत्तर स्तरङ्गैनीरैरन्तर्गभीरैश्चटुलबककुलग्रासलीनैश्च मोनैः । पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतैर्भाति प्रक्रीडदाऽऽतिस्तव सचिव ! चलचक्रवाकस्तटाकः ॥२५३|| ललितासरोवरवर्णने सोमेश्वरस्य षोडशसहस्रप्रदानं सर्वाऽनुप्रासानुमानेन । श्रीशत्रुञ्जयोपरि अनुपमदेव्या | अनुपमसरः कारितम् । तस्य भरितमहोत्सवे क्रियमाणे चारणेनोक्तम्___ भाऊ भरहिं काई सेत्तुंजि सर न कराविउं। जाणूं हुं इणइ ठामि आगइ अणुपमडी कीउं ॥ २५४ ॥
एकविंशतिः शतानि द्रम्माणां दापितानि ॥ तथा स्वसंकीर्चनगुणकुलपूर्वजावदातप्रतिपादकत्तिकौमुदीसुकृतसङ्कीर्तनकाव्यकृत्सोमेश्वरारिसिंहयोामग्रासाश्वकनकदुलादिदानं यावज्जीवाह दत्तम् । इत्यादिश्रीवस्तुपालीचिदानप्रबन्धाः शतशो यथा श्रुताः स्वयं वायाः ८१, २४, ७२, प्रवन्वेभ्यः ॥ इति
00000000002ODOODOOOOOONRONOUomooooooonimoon
-