________________
००००००००००००००००००००००००००००००००००००००००००००००००००००००
तस्मात् तत्तदघाऽपघातविधये बद्धादरा संप्रति श्रेयःस्थानविधानधिकृतकलिं श्रीवस्तुपालं स्तुहि ॥ २४५ ॥
सूरो रणेषु च रणप्रणतेपु सोमो वक्रोऽतिवक्रचरितेपु बुधोऽर्थबोधे । ___ नीतौ गुरुः कविजने कविरक्रियासु मन्दोऽपि च ग्रहमयो न हि वस्तुपालः ॥ २४६ ॥
श्रीभोजवदनाम्भोजवियोगविधुरं मनः । श्रीवस्तुपालवक्रेन्दौ विनोदयति भारती ॥ २४७॥ सर्वेषां सहस्रदानम् ॥ पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि स्वच्छा नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः। वाग्देवीमुखसामसूक्तविशदोद्गारादपि प्राञ्जलाः केषां न प्रथयन्ति चेतसि मुदः श्रीवस्तुपालोक्तयः ? ॥२४८॥
__ श्रीवस्तुपाल ! तव भालतले जिनाज्ञा वाणी मुखे हृदि कृपा करपल्लवे श्रीः ।
देहे द्युतिर्विलसतीति रुपेव कीर्तिः पैतामहं सपदि धाम जगाम नाम ॥ २४९ ॥ अपरस्तु- अनिःसरन्तीमपि गेहगर्भात् कीर्ति परेषामसतीं वदन्ति ।।
खैरं भ्रमन्तीमपि वस्तुपाल ! त्वत्कीतिमाहुः कवयः सतीं तु ॥ २५० ॥ इतरस्तु- सेयं समुद्रवसना तव दानकीर्तिपूरोत्तरीयपिहितावयवा समंतात् ।
(७८)