SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रीत्याऽऽदिष्टोऽयमुर्व्यास्तिलकयति तलं वस्तुपालच्छलेन ॥ २४२ ॥ रोहणाचलं प्रति कस्यापि प्रश्न: हो रोहण ! रोहति त्वयि मुहुः किं पीनतेयं सदा ? रोहणप्रतिवचो यथा शृणु - भ्रातः ! संप्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते । तेनाऽस्तैव ममार्थिकुट्टनकथा प्रीतिर्दरीकिंनरीगीतैस्तस्य यशोऽमृतैश्च तदियं मेदस्विता मेऽधिका ॥ २४३ ॥ एकदा देवकपत्तनतः सोमेश्वरपूजाकारका भट्टाः समागताः । मन्त्रिणा पृष्टाः - वर्या पूजा क्रियमाणाऽस्ति नवा ? । ते प्राहु: नादत्ते भसितं सितं सचिव ! ते कर्पूरपूरं स्मरन् कौपीने न च तुष्यति प्रभुरसौ शंसन् दुकूलानि ते । दिग्धो दुग्धभरैर्जलेषु विमुखः श्रीवस्तुपाल ! त्वया कर्पूरागुरुपूरितः पशुपतिर्नो गुग्गलं जिघ्रति ॥ २४४ ॥ अस्य काव्यस्य कारकाणां भट्टानां दशसहस्त्री प्रदत्ता । दानमण्डपिकायां निरर्गलं दानं ददानं वस्तुपालं कवयः स्तुवन्ति । यथा ये पापप्रवणाः स्वभावकृपणाः खामिप्रसादोल्वणास्तेऽपि द्रव्यकणाय मर्त्यभषणा जिह्वे ! भवत्या स्तुताः । (७७)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy