SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिरा धरातलमिदं यद् वीक्षसे वेद्मि तत् । वाग्देवीवदनारविन्दतिलकश्रीवस्तुपाल ! ध्रुवं पातालाद् बलिमुदिधीप्रसकृद् मार्ग भवान् मार्गति ॥२४०॥ सुवर्णजिह्वा दत्ता॥ कर्णस्त्वचं शिविर्मासं, जीवं जीमूतवाहनः, ददौ दधीचिरस्थीनि; पण्डितत्रयवाक्यमिदम् । जयन्तदेवेन समस्यापादं चक्रे-वस्तुपालः पुनर्वसु । सहस्रचतुष्टयं प्रदत्तम् ॥ एकदा सोमेश्वरो वस्तुपालधवलगृहे समागतः, वर्यासनदानेऽपि नोपविशति स्म । मन्त्रिणा कारणं पृष्टः प्राह ___अन्नदानैः पयःपानैर्धर्मस्थानश्च भूतलम् । यशसा वस्तुपालेन रुद्धमाकाशमण्डलम् ॥ २४१ ॥ ___ इति स्थानाभावाद् नोपविश्यत इत्युक्ते नवसहस्री प्रदत्ता । एकस्यां संघार्चायां विजयसेनसूरिभिरुक्तम्नन्दनोद्यानपालको बुम्बां पातयन्निन्द्रसभायामागत्य वक्ति । यथा देव ! स्वर्नाथ ! कष्टं ननु क इह भवान् नन्दनोद्यानपाल: खेदस्तत्कोऽद्य केनाऽप्यहह! हृत इतः काननात् कल्पवृक्षः । इन्द्रप्रतिवचो यथाहुँ मा वादीस्तदेतत् किमपि करुणया मानवानां मयैष , (७६) ०००००००००००००००००००००००००००००००००००००००००००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy