________________
नीरागानगमन् मुनीन् सुरभयश्चिन्तामणिः क्वाऽप्यगात् तस्मादर्थिकदर्थनां विषहतां श्रीवस्तुपालः क्षितौ ॥२३६॥ सोमेश्वरस्य सहस्रं ददौ । संतुष्टेन सोमेश्वरेण पुनरभाणि
के निधाय वसुधातले धनं वस्तुपाल ! न यमालयं गताः त्वं तु नन्दसि निवेशयन्निदं दिक्षु धावति जने क्षुधावति ॥ २३७ ॥ पुनरपि सहस्रं ददौ । तथाऽरिसिंहकविः --
t
श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गुलिच्छद्मतो जग्मुर्दक्षिणपञ्चशाखमयतां पञ्चापि देवद्रुमाः । वाञ्छापूरणकारणं प्रणयिनां जिह्मैव चिन्तामणिर्जाता यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य तत् ॥२३८|| द्विसहस्री दत्ता ॥ एकदा तुष्टेन श्रीवीरधवलेन मन्त्रिणे दशलक्षी प्रसादे दत्ता । सा तु तेन गृहादवगेव दत्ता, तदा कश्चित् कविः
-
श्रीमन्ति दृष्ट्वा द्विजराजमेकं पद्मानि संकोचमवाप्नुवन्ति ।
समागतेऽपि द्विजराजलक्षे सदा विकाशी तव पाणिपद्मः ॥ २३९ ॥ इति स्तूयमानो लज्जयांऽधो विलोकयति स्म तदा नानाख्यकविः प्राह -
(04)