________________
300000000०००००००००००००००००००००००००००००
नव्यश्लोकैर्व्याख्यानं कुर्वति द्विपदी प्रोक्ता-- अस्मिन्नसारे संसारे सारं सारङ्गलोचना । बन्दनार्थमागच्छता द्वारस्थेन मन्त्रिणा श्रुता , अहो ! रागी स्त्रीकथाकृद् मुनिः, इति ध्यात्वा न वन्दितः । ज्ञातमन्त्रिचित्ताभिप्रायेणाऽमरचन्द्रेणोक्तम्
अस्मिन्नसारे संसारे सारं सारङ्गलोचना । यत्कुक्षिप्रभवा एते वस्तुपाल ! भवादृशाः ॥२३४॥ तुष्टेन पादोपवेशनं कारितम्। एकदा तेजःपालमन्त्री भृगुपुरमायातः श्रीमुनिसुव्रतचैत्यार्चकैराचार्यैरुक्तम्मन्त्रिन् ! संदेशकमेकं शृणु । मन्त्रिणोक्तम्-आदिश्यताम् । अद्य पाश्चात्ययामिन्यां वृद्धा नार्येका समेत्य प्राह तेजःपाल ! कृपालुधुर्यविमलप्राग्वाटवंशध्वज ! श्रीमन्नम्बडकीर्तिरद्य वदति त्वत्संमुखं मन्मुखात् । आजन्मावधि वंशयष्टिकलिता भ्रान्ताऽहमेकाकिनी वृद्धा संप्रति पुण्यपुञ्ज ! भवतः सौवर्णदण्डस्पृहा ॥२३५॥ ___ इत्युक्ते मन्त्रिणा देवकुले २२देवकुलिकासहिते दण्डकलशाः स्वर्णमयाः सर्वत्राऽकार्यन्त। आचार्याणां १० द्रम्मसहस्रैर्युञ्छनानि ॥ श्रीशत्रुञ्जयतीर्थे संघसमक्षं श्रीवस्तुपालमन्त्रिणि आरात्रिके क्रियमाणेऽर्थिनां मन्त्रिमध्ये झम्पापनं दृष्ट्वा सोमेश्वरकविः प्राहइच्छासिद्धिसमुन्नते सुरगणे कल्पद्रुमैः स्थीयते पाताले पवमानभोजनजने कष्टं प्रनष्टो बलिः ।
(४)
000000000000000000000000000000000000
200000