________________
00000000000000000000000
5000०००००००००००००००००००००००
दारिद्याय जलाञ्जलिं ददामि । तदा मन्त्रिणोक्तम्-रे ! किमप्युद्गरितवस्त्रमास्ति ? ,, एका वस्त्रबन्धनस्थूलपट्यस्ति, देहि । सा द्विजस्यापिता । तेन विलोक्योक्तम्क्वचित् सूत्रं क्वचित् तूलं कार्पासास्थि क्वचित् क्वचित् । देव ! त्वदारनारीणां कुटीतुल्या पटी मम ॥२३१॥ ___ मन्त्रिणोक्तम्-पुनर्वद, सप्तदशवारमुक्तम् । १७शतानि द्रम्माणां समर्पितानि ॥ एकदा यात्राप्रारम्भे वन्दनार्थागतमन्त्रिणा सभायां किञ्चिन्निद्रायमाणनरचन्द्राचार्यो वादितः प्राह-नाहं निद्रायमाणः, किन्तु नेत्रे | निमील्य लक्ष्मीनारायणयोः समुद्रमध्यस्थयोः परस्परालापं शृण्वन्नस्मि । यथालक्ष्मि ! प्रेयसि! केयमास्यशितिता वैकुण्ठ ! कुण्ठोऽसि किं नोजानासि पितुर्विनाशमसमं सङ्कोत्थितैः पांसुभिः।। मा भीर्भीरु ! गभीर एव भविताऽम्भोधिश्चिरं नन्दतात् संघेशो ललितापतिर्जिनपतेः मात्राम्बुकुल्यां सृजन ॥२३२॥
बालचन्द्रक्षुल्लकेन श्रीवस्तुपालो वर्णितःगौरी रागवती त्वयि बयि वृषो बद्धादरस्त्वं पुनर्भूत्या त्वं च समुल्लसद्गुणगणः किंवा बहु ब्रूमहे । श्रीमन्त्रीश्वर ! नूनमीश्वरकलायुक्तस्य ते युज्यते बालेन्दु चिरमुच्चकै रचयितुं त्वत्तोऽपरः कः क्षमः ॥२३३॥
तदनु मन्त्रिणा भट्टारकपादोपवेशनं कारितं बालचन्द्रस्य । एकदाऽमरचन्द्रमुनौ पर्षदि तत्कालकृत
0000000000000000000000000000000000000000000000