________________
.000000000000000000000000000000000000000000000
0000000000000000000000000
तदनु १लक्ष ३२सहस्रैर्तेमाचार्याणां न्युञ्छनं कृत्वा मार्गणेभ्यो दत्तम् । पुहविकरंडे बंभंडसंपुडे भमइ कुण्डलिज्जंतु । तुह अम्बडदेव ! जसो अ लडपसरो भुअंगुव्व ॥२२९॥
सपादकोटिद्रम्मदानम् ॥ इति कुमारपालमहामान्यप्रधानश्रीअम्बडदेवकीर्तिदानम् ॥ तथा श्रीविमलमन्त्रिणा प्रासादेऽर्बुदोपरि कार्यमाणे तद्भामिनेता वालीनाहः कमठीयभङ्गपातेनाऽन्तरायं करोति स्म । मद्यमांसादि नैवेद्यं याचते स्म । मन्त्रिणाऽम्बिकाबलेन निर्धाटितो वटकनैवेद्येनैव रतिं प्रापितः। प्रासादसिद्धौ प्रतिष्ठामहोत्सवे संघः सर्वशक्त्या पूजितः। मार्गणास्तथा कृतार्थीकृताः, यथाऽद्यापि 'विमलश्रीसुप्रभातम्' इत्याशीर्वाद कथयन्ति, कोऽर्थः ?-विमलो मन्त्री, श्रीदेवी भार्या, तयोर्यथा सुप्रभातं सुदिवसमभूत् , तथा भवतामपि। अत्र चारणवचनम्___ मंडी मुरकी रइ करइ मिल्हीअ मंसग्गाह । विमलहिं खंडउं कड्ढीउं नट्ठउ वालीनाह ॥२३०॥
लक्षं ददौ॥ इति श्रीविमलस्य कीर्तिदानं दण्डनायकस्य ॥ अथ वस्तुपालकीर्तिदानप्रबन्धाः-श्रीवस्तुपालः प्रतिवर्ष वारत्रयं सर्वचतुर्विधसङ्घपूजां करोति स्म । एकदा सङ्घार्चायां जायमानायां एको दरिद्रो द्विजः प्राह-देव ! कल्पगुमावतार इव सर्वलोकवाञ्छितं ददानो दृश्यसे, एकवेलं ममापि संमुखमवलोकय, यथा ,
००००००००००००००