SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ पूर्व वीरजिनेश्वरेऽपि भगवत्याऽऽख्याति धर्म स्वयं प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तु क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधाल्लब्ध्वा यस्य वचःसुधां स परमः श्रीहेमसूरिप्रभुः ॥२२३॥ तथैकदा श्रीहेमसूरिखकरधृतवामकरस्य श्रीकुमारपालस्य श्रीशत्रुञ्जयचैत्यपरिपाट्यां संचरतः कपर्दिकविः प्राहश्रीचौलुक्य ! स दक्षिणस्तव करः पूर्व समासूत्रितप्राणिप्राणविघातपातकसखः शुद्धो जिनेन्द्रार्चनात् । वामोऽप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात् न स्पृश्येत करेण चेद् यतिपतेःश्रीहेमचन्द्रप्रभोः ॥२२४॥ ___ इत्यादिकवित्वकथककवीनां कुमारपालो धनमपि धनं ददौ । एकदा वीसलदेवेन भोजनान्ते तृणं dol करे कृत्वाऽरिसिंहोऽभिदधे--इदं तृणं सद्यो वर्णय । यदि रुचितभङ्गया वर्णयसि, तदा ग्रासद्वैगुण्यं, अन्यथा सर्वग्रासत्याजनम् । इत्युक्ते स ऊचे-- क्षारोऽब्धिः शिखिनो मखा विषमयं श्वभ्रं क्षयीन्दुर्मुधा प्राहुस्तत्र सुधामियं तु दनुजत्रस्तैव लीना तृणे । पीयूषप्रसवो गवां यदशनाद्, दत्त्वा यदाऽऽस्ये निजे देव ! त्वत्करवालकालमुखतो निर्याति जातिढेिषाम् ॥२२५॥ चमत्कृतो भूपालो ग्रासद्वैगुण्यं चकार ॥ इति वीसलदेवकीर्तिदानम् ॥ एकदा योगिनीपुरतो जलालदीनः 50000000000000000000000000000000000000 30000000000000000000000000000000000000000000000000 0000000mm
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy