________________
0000000000000000000000000000000.
सुरत्राणः कटकमादाय गूर्जरधरित्री भक्त्वा भृतपूरितः पश्चाद् वलितःसन् गोपगिरिसमीपं प्राप्य सुन्दराभिधसरोवरपाल्यामुत्तर्णिः । तत्सैन्यसंनिवेशं ज्ञात्वा गोपगिरिनृपतिराउललाखणसिंहपुत्र उदयसिंहः स्वचढूं संनह्य तत्रागत्य युद्धं विधाय गूर्जरत्रानीतं पुरातनमश्वादिकमादाय तच्चमूं निर्धाट्य स्वपुरं प्रविशन् । चारणेन वर्णितः___ सुन्दर सर असुराह दलि जल पीधउं वयणेहिं । उदयनरिन्दहिं कड्ढीउं तीहं नारीनयणेहिं ।।२२६॥
चारणपठितां गाथां श्रुखोदयसिंहेनाऽश्वादिभूषितवस्तुसङ्घातं चारणाय प्रदत्तम् ॥ इत्युदयसिंहकीत्तिदानप्रबन्धः ॥ एवमपरेषां मुञ्जकर्णवनराजभीमबप्पभाट्टिसूरिप्रतिबोधितश्रीआमादिनृपाणां कीर्तिदानप्रबन्धाः स्वयं ज्ञेयाः॥अथ मन्त्रिप्रधानादिव्यवहारिणां कीर्तिदानप्रबन्धाः-एकदा पत्तने संवननचूर्णाद् वशीभूताम्बुधेः कुङ्कुणाधिपतेर्मल्लिकार्जुनस्य राजपितामहेति बिरुदं बन्दिमुखात् श्रुत्वा क्रुद्धश्रीकुमारपालेन प्रेपितःप्रधानमन्त्रिश्रीअम्ब
डदेवः । ततस्तेन सबलसेनापरिवृतेन संग्रामाङ्गणे तच्छिरो लूनम् । तत्र देशे ३०० जालानि ज्वालितानि । सर्वत्र | कुमारपालाज्ञा दापिता । ततः सोपारकपत्तने प्राप्तः, तत्र जीवत्स्वामियुगादिप्रासादे स्नात्रपूजाप्टाह्निकामहोत्सवं कृत्वा तदनु शृङ्गारकोटीशाटी१ माणिक्यपट२ पापक्षयंकरहार ३ विषापहशुक्ति४ १४भारमित
(७०)
ooooooo