________________
30
HUUUUU8ooooooooooooooooooooooooooooo
चौलुक्येन कुमारपालविभुना प्रत्यक्षमावासिता निर्भीका निजमानसौकसि वरे केनोपमीयेत सः ॥२१३॥ आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरादब्दान्येव चतुर्दिशं प्रसृमरां मारिं निवार्याऽञ्जसा । कीर्तिस्तम्भनिभाश्चतुर्दशशतीसंख्यान विहारांस्तथा क्लुप्त्वा निर्मितवान् कुमारनृपतिर्जनो निजैनोव्ययम् ॥२१॥ ____ निष्पुत्रकुबेरदत्तावासे तल्लक्ष्मीविलोकनार्थ गतः, तज्जननीजायाभगिन्यादिकुटुम्बं विलपन्तं दृष्ट्वा सकरु| णश्चिन्तितवान्
दुर्भिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बन्धकी ध्यायत्यर्थपतेर्भिषग् गदगणोत्पातं कलिं नारदः। दोषग्राहिजनश्च पश्यति परच्छिद्रं छलं राक्षसी निष्पुत्रं म्रियमाणमाढ्यमवनीपालो हहा ! वाञ्छति ॥२१५॥ इति नृपाशयं ज्ञात्वा रामकपर्दिश्रीपालादिकवयः स्तोतुं प्रवृत्ताःभरहसगरसणंकुमारहरियंददहरहनलेहिं । न कयं अमारिकरणं न य केण य मुग्गडं मुझं ॥२१६॥ अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु संतोपतो मुञ्चन् सत्यं राजपितामहः ॥२१७॥ न यद् मुक्तं पूर्वै रघुनहुषनाभागभरतप्रभृत्युर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । विमुञ्चन् कारुण्यात् तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥२१८॥
(६५)
Pooooooooooooooooooooooooooocoacuooooooooooooo0