________________
0000000000000000000000000000000000
देव ! त्वदस्त्रचकिताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥ १८० ॥ पश्चाद् वलमानः स्वकारितसरस्तीरमुपागतः सरोवर्णनाय धनपालं प्रत्याह ।
एषा तटाकमिपतो वरदानशाला मत्स्यादयो रसवती प्रगुणा सदैव ।
पात्राणि यत्र बकसारसचक्रवाकाः पुण्यं कियद् भवति तत्र वयं न विद्मः १ ॥ १८१ ॥ तत्रापि क्रुद्धः पुरं प्रत्यागच्छन् यज्ञमण्डपे यज्ञस्तम्भनियन्त्रितच्छागस्य दीनां गिरमाकर्ण्य किं पशुरसौ व्याहरतीति व्यादिष्टः श्रीधनपालः प्राहनाहं स्वर्गफलोपभोगतृपितो नाभ्यर्थितस्त्वं मया संतुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव । स्वर्ग यान्ति यदि वया विनिहता यागे ध्रुवं प्राणिनो यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ? ॥१८२॥
ततो रुप्टेन भोजेन धनपाललोचने क्रष्टुं चिन्तिते । पण्डितेन चेष्टया ज्ञातम् । तदनु प्रतोल्यां प्रविशता नृपेण बालिकापृष्णिलग्नां वार्द्धकदोधूयमानमूर्हानं वृद्धामेकामागच्छन्तीं दृष्ट्वा धनपालः प्राह-वामिन् ! ३ एषा शीर्पधूननेन बालिकायाः पृच्छत्या निषेधं कुर्वत्यस्ति । कथमिति नृपतिपृष्टः प्राह
किं नन्दी किं मुरारिः किमुत सुरपतिः किं नलः किं कुबेरः
०००००००००००००००००००००००००००००