SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ किं वा विद्याधरोऽसौ किमु रतिरमणः किं विधुः किं विधाता । नायं नायं न चायं न खलु न हि नवा नापि नासौ न चैष क्रीडां कर्तु प्रवृत्तः खयमिह हि हले ! भूपतिर्भोजदेवः ॥ १८३ ॥ राज्ञा पृष्टम्-मुरारिप्रभृत्युपमानानि मम कथं शोभन्ते ' । पण्डितेनोक्तं शृणु अभ्युद्धृता वसुमती दलितं रिपूरः क्रोडीकृता बलवता बलिराज्यलक्ष्मीः । एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत् पुरुषः पुराणः ॥ १८४ ॥ ततस्तुष्टो भोजः प्राह-वरं वृणु । धनपालेनोक्तम्--चक्षुषी देहि। राज्ञोक्तम्-ते पुराऽपि स्तः । तेनोक्तम्ते सती अप्यसती । कुतः ? । त्वया ते मनसा गृहीते । कथं ज्ञायते ?-- आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवत्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः ॥ १८५ ॥ तर्हि स्वस्थो भव, दत्ते लोचने; इत्यादि महाप्रसादः कृतः पण्डितधनपालस्य । श्रीभोजेन जितोऽस्मीति चिन्तां चिन्तामणे ! त्यज । जिता देवद्रुमाः पञ्च न दुःखं पञ्चभिः सह ॥१८॥ भोज ! वामसमानदानविहितैरथैः कृतार्थीकृतत्रैलोक्यं फलभारभगुरशिराः कल्पद्रुमो निन्दति । 30000000000000000000000000000000000०००००००००००००००००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy