SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 000000000000000000000000000000000000000000000000000 ही यथा-सर्वदेवाद्विजसुतः पण्डितधनपालो लघुभ्रातृशोभनसाधुप्रतिबोधितः परमार्हतः समजनि । 8 सव्वत्थ अत्थि धम्मो जा मुणिों न जिणसासणं तुम्ह । कणगाउराण कणगं व ससिअपयमलभमाणाणं ॥१७॥ इत्यादि जिनधर्मस्थापकः । एकदा नृपेण भोजेनाऽऽखेटके बलात्कारेण सहाऽऽकारितः, वने बाणेनैणे विद्ध भूमौ पतिते सति भूमिस्पृशं पुच्छं वीक्ष्य धनपालं प्राह-किं कारणम् । ततः पण्डितधनपालवाह रसातलं यातु तदत्र पौरुषं कुनीतिरेषाऽशरणो ह्यदोषवान् । निहन्यते यद् बलिनाऽतिदुर्बलो हहा ! महाकष्टमराजक जगत् ॥ १७७ ॥ पदे पदे सन्ति भटा रणोत्कटा न तेषु हिंसारस एष पूर्यते । धिगीदृशं ते नृपते ! कुविक्रमं कृपाश्रये यः कृपणे मृगे मयि ॥ १७८ ॥ अपि च वैरिणोऽपि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते हन्यन्ते पशवः कथम् ? ॥ १७९ ॥ इति तन्निर्भर्त्सनात् क्रुद्धो नृपः । अपरे बाणादयस्त्वेवं पठन्ति किं कारणं नु कविराज ! मृगा यदेते व्योम्न्युत्पतन्ति विलिखन्ति भुवं वराहाः ।
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy