SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 300000000000000000000000000000000000000000. ज्ञानाप्तिर्लोकपूजा प्रशमसुखरसः प्रेत्य नाकाद्यवाप्तिः श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयस्तत्र या कुरुध्वम् ॥१७२॥ राज्यं तु नरकान्तमेव महामोहोदयात् । यदुक्तम्हयहेषितगजगर्जितसुभटभुजास्फोटतूर्यनिर्घोपैः । कुतुकं वनितावाग्भिभृशायते मोहनिद्रेयम् ॥ १७३ ॥ इत्यादिसरसस्त्राचारसंसूचककाव्यरञ्जितः श्रीविक्रमार्कः सुश्रावकः प्रभावकः श्रीशत्रुञ्जयोद्धारादिपुण्यकरणीयकारकः यावज्जीवं श्रीसिद्धसेनचरणारविन्दरेणुमकरन्दरोलम्बः समभूत् । तत ओङ्कारनगरादिषु सर्वत्र प्रासादा निष्पन्नाः । इति विक्रमादित्यकीर्तिदानप्रबन्धः । तथा प्रतिष्ठानपुराधिपो द्वापञ्चाशद्वीरवन्द्यपादः शत्रुञ्जयोद्धारकारकविद्यालयादिगाथाकोशप्रवर्तकः शातवाहननृपः। सच्चं भण गोदावरि ! पुव्वसमुद्देण साहिआ सन्ती । सालाहणसारिच्छं किं ते तीरे कुलं अस्थि ॥१७४॥ उत्तरओ हिमवन्तो दाहिणओ सालवाहणो राया । समभारभरक्कन्ता तेण न पल्हत्थए पुहवी ।। १७५ ।। इत्यादिगाथाकारकाणां घनमपि धनं ददौ । तथा धारानगरीधराधिपः श्रीभोजराजः कालिदासवररुचिमयूरबाणकर्पूरक्रीडाचन्द्रराजशेखरप्रमुखपञ्चशतपण्डितानां स्तूयमानगुणगणानां कनककोटिगजतुरगशतग्रामसह३ स्रादि साम्राज्यं ददौ । सर्वेऽपि प्रबन्धाः प्रबन्धचिन्तामणितो ज्ञेयाः। श्रीभोजो धनपालस्य चक्षुषी ददौ । (५८) .0000000000000000000000000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy