________________
पद्यामध्वनि संचरेय विरसं भुञ्जीय भैक्षं सकृज्जीर्ण सिग् निवसीय भूमिवलये रात्रौ शयीय क्षणम् । निस्सङ्गत्वमधिश्रयेय समतामुल्लासयेयाऽनिशं ज्योतिस्तत् परमं दधीय हृदये कुर्वीय किं भूभुजा ? ॥१६८॥ पद्यां गलदुपानद्यां संचरन्तेऽत्र ये दिवा । चारित्रिणस्त एव स्युर्न परे यानयायिनः ॥ १६९ ॥ केशोत्तारणमल्पमल्पमशनं निर्व्यञ्जनं भोजनं निद्रावर्जनमह्नि मज्जनविधित्यागश्च भोगश्च न । पानं संस्कृतपाथसामविरतं येषां किलेत्थं क्रिया तेषां कर्ममयामयः स्फुटमयं स्पष्टोऽपि हि क्षीयते॥१७०॥
इत्यादि स्वाचारप्रकटीकरणेऽपि राजा राज्याङ्गीकारं विना गुरुचरणारविन्दं न त्यजति स्म । तदा गुरुभिरभाणि-राजन् ! भव्यभोजनमपि न रोचतेऽस्माकं, राज्येन किं क्रियते । यतः
शमसुखशीलितमनसामशनमपि द्वेषमति किमु कामाः ।।
स्थलमपि दहति झषानां किमङ्ग ! पुनरुज्ज्वलो वह्निः १ ॥१७१॥ तथा संयमसाम्राज्यतुलां राज्यं नाश्चति । यतः| नो दुष्कर्मप्रयासो न कुयुवतिसुतखामिदुर्वाक्यदुःखं राजादौ न प्रणामोऽशनवसनधनस्थानचिन्ता न चैव ।
2000000000000000000000000000000000000000000000000000