________________
+00000000000000000000000000000000000
दीयन्तां दश लक्षाणि शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोको यहाऽऽगच्छतु गच्छतु ॥ १६३ ॥
ततः श्लोकमेनं श्रुत्वा नास्माकं लक्षैश्च ग्रामैश्च प्रयोजनं, इत्युक्त्वा सिद्धसेनो राजसभायां गत्वा चतुर्दारसिंहासने पूर्व दिग्भागमध्यासीनं श्रीविक्रमार्कमवलोक्य श्लोकमेतं पपाठ । यथा____ अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः ? । मार्गणौघः समभ्येति गुणो याति दिगन्तरम् ॥१६॥ ततो राजा पूर्व सिंहासनं मुक्त्वा दक्षिणसिंहासनमलंचकार । तत्र सूरिईितीयश्लोकमपठत् । यथा
सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः । नाऽरयो लेभिरे पृष्ठं न चक्षुः परयोषितः ॥ १६५ ॥ ततः पश्चिमसिंहासनमधितष्ठौ, सूरिस्तृतीयश्लोकं पठितवान् । यथा-- ____ आहते तव निःखाने स्फुटितं रिपुहृदटैः । गलिते तत्प्रियानेत्रे राजंश्चित्रमिदं महत् ॥ १६६ ॥ तत उत्तरसिंहासनमध्यतिष्ठत् । सूरिश्चतुर्थ श्लोकं जगाद । यथासरस्वती स्थिता वक्र लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता राजन् ! येन देशान्तरं गता ? ॥ १६७ ॥
तच्छ्लोकचतुष्कमाकर्ण्य श्रीविक्रमः सिंहासनादुत्थाय श्रीसिद्धसेनसूरिं प्रणम्याह-हे भगवन् ! दत्तं मया भवतां चतुर्दिग्राज्यम् । ततः सूरिः प्राह-हे श्रीविक्रमार्क ! समतृणमाणिलोष्टकाञ्चनानां किमस्माकं राज्येन ।