________________
2000000000000000000000000000000000000000000000000
ततस्तुष्टेन भूपेन पाण्ड्यनृपदण्डागतप्राभृतं दत्तम्-- अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुला पञ्चाशद् मधुगन्धलुब्धमधुपक्रोधोडुराः सिन्धुराः। अश्वानामयुतं प्रपञ्चचतुरं पण्याङ्गनानां शतं दण्डे पाण्ड्यनृपेण ढौकितमिदं वैतालिकस्याऽर्पितम् ॥ १५९ ॥ एकदा देवतावसरे श्रीविक्रमेण किञ्चिन्मालिन्यधौतवस्त्रदर्शने कारणं पृष्टा रजककामिनी जगादयाऽऽसीद् दक्षिण ! दक्षिणाऽर्णववधू रेवाप्रतिस्पर्दिनी गोविन्दप्रियगोकुला गिरिणदी गोदावरी विश्रुता। तस्यां देव ! गतेऽपि मेघसमये स्वच्छं न जातं पयस्वद्दण्डद्विरदेन्द्रदन्तमुसलप्रक्षोभितैः पांसुभिः ॥१६०॥ तहचोविस्मितस्तस्यै ददौ श्रीविक्रमो नृपः । तानि वस्त्राणि सर्वाणि स्वर्णकोर्टि विशेषतः ॥ १६१ ॥
तथैकदा श्रीसिद्धसेनदिवाकरा विहरन्तोऽवन्तीपुरीमागताः । तदा श्रीसद्धेन विज्ञप्तम्--भगवन् ! भवतां विद्या प्रमाणं तदा, यदि राजानं रजयित्वोङ्कारनगरे ब्राह्मणैः कर्तुमदीयमानं जिनप्रासादं कारयत । ततः सिद्धसेनसूरयः राजानं मिमिलिषवः कृतनवीनचतुःश्लोकाः प्रतोली प्रापुः। द्वारपालः प्रवेष्टुं न दत्ते स्म, तदा गुरुभिः
दिक्षुर्भिक्षुरेकोऽस्ति वारितो द्वारि तिष्ठति । हस्तन्यस्तचतुःश्लोकः किंवाऽऽगच्छतु गच्छतु ? ॥ १६२ ॥ इति श्लोको विक्रमपुरतः प्रतीहारपाङ भाणितः। राजाऽपि श्लोकं श्रुत्वा सानुप्रासपदबन्धचमत्कृतः प्रत्याह