________________
00000000000000000०००००००००००००ooooooooooooooooooooonor
निर्मल राजहंसावतार हर्षवदन सत्यवाचायुधिष्ठिर इति व्यवहारिमन्त्रिविरुदानि । चउदविद्यानिधान समस्यासत्रकार षड्भाषाचक्रवर्ति जाणरायभरताचार्य कलिकालसर्वज्ञ कूर्चालसरस्वती सरस्वतीधर्मपुत्र प्रत्यक्षबृहस्पति सरस्वतीकण्ठाभरण वादिविभाड कविकामधेनु' इत्यादिविविधगुणवर्णनोत्साहिताः कीर्त्यभिलाषिणः दानव्यसनवासितचेतसः सर्वस्वमपि ददति पुरुषाः। कीर्तिदानोदाहरणानि यथा-एकदा विक्रमार्कः सर्वावसरमण्डपोपविष्टस्तृषाकुलो जातः, जलममार्गयत् । यथा--
खच्छं सज्जनचित्तवल्लघुतरं दीनार्थिवच्छीतलं पुत्रालिङ्गनवत् तथा च मधुरं बालस्य संजल्पवत् । एलोशीरलवङ्गचन्दनलसत्कर्पूरपालीमिलत्पाटल्युत्पलकेतकीसुरभितं पानीयमानीयताम् ॥ १५७ ॥ ततो मन्त्रिणा सजलकनककच्चोलके आनीते वैतालिक उवाच
वक्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः। वाहिन्यः पार्श्वमेताः कथमपि भवतो नैव मुञ्चन्त्यजस्रं
खच्छेऽन्तर्मानसेऽस्मिन् कथमवनिपते ! तेऽम्बुपानामिलापः ? ॥ १५८ ।।
00000000000000000000000000000000000000000000000000