________________
3000000000000000000000000000000000000000000000000000000
अभ्रस्तम्बविडम्बि यौवनमिति प्रेम्णाऽवगूढाः स्त्रियो यैरेवाऽत्र विमुच्यते भवरसात् तैरेव बद्धो जनः॥१५४॥ इत्यादि संसारासारतां भावयन् धर्माधिकारिणे पारितोषिकमदात्___ अष्टौ कोटीः सुवर्णानां शासनानि च षोडश । श्रीविक्रमनृपस्तुष्टो ददौ धर्माधिकारिणे ॥ १५५ ॥
इति श्रीविक्रमादित्योचितदानम् । इत्याद्यनेकदृष्टान्ताः स्वयमुचितदाने वाच्याः॥ अथ पञ्चमं कीर्तिदानम्तच्च विद्वदङ्गनानामाबालगोपालादीनां पशूनामपि च प्रियम् । यथा
गेयं भोज्यं सुवचनं कामिनी काञ्चनं कथा । विशेषज्ञाविशेषज्ञसाधारणसुखानि षट् ॥ १५६ ॥ कीर्त्या निजकुलरूपवंशविद्यागुणवर्णनरूपया भट्टचारणमल्लगन्धर्वमार्गणादीनां यद् दीयते तत् कीर्तिदानम्। यथा-'सोनाजलहर कूरसागर कडाहिसमुद्र शालिसमुद्र वाहणवरिस दारिदमुद्राविहंडणहार विहिलिखिताक्षरमीटणहार पञ्चार्णवादिसंवच्छरमुद्रांकणहार अछतिनाविक्रमादित्य बिमणिभोज जगज्जीवजीवनजीमूतवाहन दूबलांमुहसाल दूबलांपीहर सकलजीवलोककनकधाराप्रवाह ऋणमोक्षणकामधेनु दीनोद्धरणधीर दुस्समयसावधान छत्रीसवेलाउलविख्यात अष्टादशवर्णपारिजात विषमदुष्कालजीतूआर इति दातृबिरुदानि । तथा भोगपुरन्दर सौभाग्यसुन्दर जबाधिजलधर ताम्बूलसनागर बीडीवइरागर मानिनीमनोहर लीला