SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 10000000000000000000000000000000000000000000000 निर्लोभत्वादाचार्यों नजगृहे, राजाऽपि न जगृहे, कल्पितत्वात्। ततः कनककोटी सा सूरेरनुज्ञया जीर्णोद्धारे संघप्रधानपुरुषैः कृतार्थीकृता । धर्मलाभ इति प्रोक्ते दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटि नराधिपः ॥ १४६ ॥ इति विक्रमादित्योचितदानम् ॥ तथैकदा वसन्तसमये लीलोद्यानवने क्रीडां कर्तु विक्रमार्कः सपरिकरः । जग्मिवान् । तन्न च नारीकुञ्जरक्रीडासुखमनुभूय मानिनीजनमनोजीवनसुदलकदलीवनखण्डमण्डितमण्डपान्तःकनकमयसिंहासनस्थितः षट्त्रिंशदाजपात्रप्रपञ्चितचारुतरगीतनृत्यवादिनलीयमानदत्तावधानः सहर्षः संसारसुखातिरेकरसिकः काव्यमिदं सगर्वः वारं वारं पापठीति । यथा__ क्वचिद् वीणावेणुप्रवणरमणीगीतभणितिः क्वचिद् भट्टश्रेणी पठति बिरुदालीमविरतम् ।। सहर्ष हेपन्ते क्वचिदपि हया दन्तिनिवहा नदन्ति क्ष्मान्तर्न प्रबरमपरं राज्यसदृशम् ॥ १४७ ॥ एतत्संमोहापोहाय स्पष्टमाचप्टे परिवारादिष्टो धर्माधिकारी सज्जनः-- हे राजन् ! श्रीविक्रमार्क ! किं राज्येन धनेन धान्यनिचयैर्देहस्य सद्भूपणैः पाण्डित्येन भुजाबलेन महता वाचां पटुत्वेन च । जात्याऽप्युत्तमया कुलेन शुचिना शुभैर्गुणानां गणैरात्मा चेन्न विमोचितोऽतिगहनात् संसारकारागृहात् ?॥१४॥ (५०) ~~u000000000000000000000000000000000000000000०००००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy