________________
000000000000000
कर्तारौ । तुष्टेन प्रतिष्ठानिवहस्तेषामग्रे ढौकितः । निर्लोभत्वान्न गृहीतः। भट्टो निष्कासितः। महती प्रभावना जाता। यावज्जीवं यवनो जिनधर्मसानुकूलः समजनि ॥ तथा--उज्जयिन्यामेकदा सिद्धसेनाचार्याणां प्रवेशोत्सवे जायमाने तदवसरराजपाटिकानिर्गतश्रीविक्रमादित्यनरेन्द्रेण कलिकालसर्वज्ञमर्वज्ञपुत्रादिसूरिबिरुदवृन्दं जैनभट्टपठ्यमानं श्रुत्वा तत्परीक्षार्थ मनसा प्रणामश्चक्रे । आचार्यैर्धर्मलाभो दत्तः। नरेन्द्रेणोक्तम्-किमधिका धर्माशीः१,यत् प्रणाम विनापि दीयते । तैरुक्तम्-प्रणामस्त्रिविधः-मनोवाकायरूपः, त्वया मानसिकः कृतः, इत्युक्ते प्राह तुष्टः सन्किं भवति धर्मलाभाशीर्वादेन । सूरिराह-- दुर्वारा वारणेन्द्रा जितपवनजवा वाजिनः स्यन्दनौधा लीलावत्यो युवत्यः प्रचलितचमरै पिता राज्यलक्ष्मीः। उच्चैःश्वेतातपत्रं चतुरुदधितटीसङ्कटा मेदिनीयं प्राप्यन्ते यत्प्रभावात् त्रिभुवनविजयी सोऽस्तु ते धर्मलाभः॥१४३॥ दीर्घायुर्भव भण्यते यदि पुनस्तन्नारकाणामपि सौख्यार्थ धनवान् भवेद्यदि पुनस्तद् म्लेच्छकानामपि । संतानाय च पुत्रवान् भव पुनस्तत् कुर्कुटानामपि तस्मात् सर्वसुखप्रदोऽस्तु भवतां श्रीधर्मलाभः श्रिये ॥१४॥ __ ततो राजा हस्तिस्कन्धादवरुह्य ववन्दे, कनककोटिं चानाययत् । आचार्यैरुक्तम्
___भुञ्जीमहि वयं भैक्षं शीर्ण वासो वसीमहि । शयीमहि महीपीठे कुर्वीमहि किमीश्वरैः ॥१४५॥
0000000000000000000000000000000000