________________
ooooooooooooooooooooooooooooooooooooooooooooooooooooooo
वर्षाकाले पयोराशिः कथं गर्जितवर्जितः १ । अन्तःसुप्तजगन्नाथनिद्राभङ्गभयादिव ॥ १४१ ॥
तथैकदा जीर्णदुर्गाधिपखगाराभिधभूपेन आखेटकचटितेन तुरङ्गमपुच्छबन्धितमारितशशकनिवहेन मार्गपरिवारभ्रप्टेन बब्बूलतरुशाखारूढह्मणाभिधचारणपार्श्वे पृष्टम्--भोः! वेत्सि प्राध्वरमार्गम्। सकारुणिकेनोक्तं तेन
जीव वधन्तां नरय गइ अवधन्तां गइ सग्गि । हुं जाणुं दुइ वट्टडी जिणि भावै तिणि लग्गि ॥१४२॥
वेधकदुग्धघटश्रवणसमुत्पन्नविवेकेन यावज्जीवं जीववधनियमो गृहीतः। अश्वग्रामप्रदानैश्चारणो धर्ममार्गप्रकाशकत्वाद् गुरुवत् पूजितः। इत्युचितदाने खङ्गारनृपोदाहरणम् ॥ एकदा नन्दपद्रे कृष्णपीयश्रीजयसिंहसूरयश्चतुर्मासी स्थिता अभूवन् । तत्र सेवडापण्डविरुदं विभ्राणः समागतो गोपालनाथभट्टः। शक्तिसिंहनृपसभायां आचार्या आकारिताः क्षुल्लकानां व्याकरणं पाठयन्तः हस्तस्थितलोहवर्तनकाः प्राप्ताः । नृपेणोक्तम्किमिदं करे ?। तैरभाणि-सेवडाषण्डस्य कुषण्डस्य नाथनार्थ लोहकीलिका।वादे भग्नो भट्टः। परित्यक्तं सभासमक्ष बिरुदम् । तुष्टेन नरेन्द्रेण महती जिनशासनप्रभावना कृता सङ्घपरिधापनपूर्वम् । एकदा स्तम्भपुरे केऽपि सितपटा झोटिङ्गभट्टेन मलिककबीरदीनपार्श्वे आकारिताः। निस्सङ्गनिरीहलेनाऽऽसनादिदानेऽपि भूमावुपविष्टाः। भट्टःकथयति-न्द ! सितपटाः कर्तारं न मानयन्ति। यतिभिरुक्तम्-पठ क्षुल्लक! कर्तृशब्दं यथा-कर्ती कर्तारौ कर्तारः कर्तारं
(४८)
0000000000000000000000000000000000000
000C