SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ०००००००००००००००००००००००००००००००००००००००००००००००००००० वटवृक्षवद्विस्तीर्णस्यापि दानं भिल्लकुलानुसारेणैव तेऽस्ति इत्यर्थवाचकगाथावेधितश्चमत्कृतःस श्रीमुङ्गलराजस्तुष्टो गोपालनायकाय ददौ । नवरङ्गतिलङ्गपटी तरङ्गरङ्गत्तुरङ्गवतीम् ॥ १३९ ॥ अल्पदानात् पुनर्वहं प्रत्यन्योक्तिमाहवडविडवि किं न लज्जसि गरुओ तुच्छं फलं समप्पन्तो ?।ओ दुब्बलकोहलया वुड्ढं वुड्ढं फलं देइ ॥१४०॥ ___ ततस्तिलङ्गपटीस्थचित्रतुरङ्गमसङ्ख्यका मन्दुरातश्छोटयित्वा दत्तास्तुरङ्गमाः । ततो भोजनाय स्वगृहे आकारितः, तव भिल्लवंशोद्भवस्याऽहं विप्रः कथं गृहे आगच्छामि । बलादानीतः।सुवर्णस्थाले हीराऽऽमलकप्रमाणमौक्तिकानि कूरस्थाने, नीलचूर्णिका हाटकटङ्ककाश्च दालिस्थाने, सिद्धरसो घृतस्थाने, कनकधटयो वटकस्थाने, रूप्यटङ्ककाः करम्भस्थाने दत्ताः। तदनु स्वर्णतारीपट्टकूलयवकबाहिझूर्णकादिवस्त्रनिकराश्च । ततः सन्तुष्टेनोक्तं गोपालेन-मया तुभ्यं दक्षिणकरः प्रदत्तः। इत्युक्त्वा चलितः। ढिल्ल्यां प्राप्तः। पीरोजपातसाहस्य मिलितः। कलारञ्जितः सुरत्राणो दानं ददाति । स वामहस्तं धरति। तेन वामकरधरणकारणं पृष्टम् । स आह-मदक्षिणकरः संरुद्धः श्रीमुङ्गलराजेन । ततः परिधाप्य विसर्जितश्च ॥ तथा सिद्भभूपालः स्वकृतपादद्वयसमस्यापूरणे सर्वाङ्गशृङ्गारं रत्नमुद्रादिकं श्रीपालकवये ददौ । 30000000000000000000000000000000000000000000000000 (४७)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy