________________
20000000000000000000000000000000000000000000000000
नवं कालं ज्ञोऽपि नवा रुरुत्सते सतां हि सूतेऽवसरज्ञता यशः ॥ १३३ ॥ गेयं नाट्यं रमा रामा भूषा भक्तं पयः सिता । धत्तेऽनवसरे सर्व प्रतिवीरुधि पशुताम् ॥ १३४ ॥ अश्मा भस्म तृणं तूलं धूली ध्वान्तं शिखी विपम् । भवत्यवसरे वस्तु समस्तं प्रीतिवर्धनम् ॥ १३५॥ प्रातर्भूमानिवोदेति भावान् भित्वा तमांस्यहो ! । काले तमस्सु पुष्टेपु सोऽपि नश्यति चौरवत् ॥१३६॥
दृष्टान्तो यथा-पाटलीपुरे पङ्कप्रियकुम्भकारेण ईjया नगरं परित्यज्याऽरण्यस्थमहातटाकपालिकृतकुटीरोपितेनाऽश्वापहृततृपाक्रान्तनरवाहनभूपं खच्छतिलसुगन्धपानीयेन सन्तोप्य वस्त्रताम्बूलवासग्रामग्रासाश्वसुखासनवाहनादिभोगसामग्री प्राप्ता ।। कल्लिहिं बोर जि वीणती अज्ज न जाणइ खक्ख । पुणरवि अडविहिं करी सुघर न सहुं एह अणक्ख ॥१३७॥
प्रसिद्धा कथेयम् ॥ तथाऽन्योक्त्यादिसुभापितकथकाय यदीयते, तदप्युचितदानम्। दृष्टान्तो यथा--एकदा नन्दपद्रपुराधिपशक्तिसिंहनृपतिसुतो मुङ्गलराजः वाहकेली निर्गतः कृपणः वटवृक्षाधः श्रान्तः समुत्तीर्णः । मार्गणार्थागतासन्नोपविष्टगोपालनायकभट्टः भूपप्रतिबोधाय वटवृक्षं प्रत्यन्योक्तिमाह----
भूमीगुणेण जइ कहवि तुंगिमा तुज्झ होइ ता होउ । तह तुह फलाण रिद्धी होही बीआणुसारेण ॥१३८॥
OOO00000