________________
-०००००००००००००००००००००००००००००००००००० ००००००००००००००००
श्रूयतां धर्मसर्वखं श्रुत्वा चैवाऽवधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ १०६ ॥
इत्याद्युपदेशप्रकटनप्रवणश्रीआर्यसुहस्तिगुरुदर्शनसमुद्भूतजातिस्मरणदृष्टद्रमकत्वादिदुरवस्थादुष्टदुष्कालरात्रिप्रचारः करुणाचित्तश्रीगुरुदत्तदीक्षकदिनपालनानुमोदनादिपूर्वभवः श्रीसंप्रतिभूपः सप्तशतसत्रकारान् पृथक् पृथक् देशेषु नानाशनपानखादिमस्खादिमादिप्रभूतभोज्यभोजनदानमनोहरान् दीनदुःस्थितोद्धरणाय वाहयामास । दयादानोपरि श्रीसंप्रतिकुमारपालकथा वाच्या ॥
__ जीवदया गुणवेलडी रोपी रिसहजिणन्द । श्रावककुलमण्डप चढी सींची कुमरनरिंद ॥ १०७॥
एकादश लक्षाण्यश्वानां गलितं वारि पिबन्ति स्म । एतदधिकारो वाच्यः ॥ अयोध्याप्रवेशे श्रीरामेण संमुखागतमहाजनादिलोकपार्थे धान्यस्य कुशलं पृष्टम् । तदा वनवासे श्रीरामोऽन्नाभावात् क्षुधार्तोऽभूदिति मनसि विचिन्त्य लोकैः परस्परं संमुखं वीक्ष्य मनाग् जहसे । कियदिनानन्तरं रामेण महाजनादिलोकान् भोजनार्थमाहूय रत्नभृतस्थालानि ढौकितानि । तदा लोकैर्विज्ञप्तम्-देव ! नवीना रसवती भोक्तुं न शक्यते, तदा श्रीरामेणोक्तम्-मम पृच्छायां कथं हसिताः । । ततो भवन्तः शृण्वन्तु
उत्पत्तिर्दुर्लभा यस्य व्ययो यस्य दिने दिने । सर्वरत्नप्रधानस्य धान्यस्य कुशलं गृहे ? ॥१०८॥
00000000000000000000000000000000000000000000000000