________________
0000000000000000000000000000000000000000000000000000000
अन्नं वै प्राणिनां प्राणा अन्नमोजः सुखौषधिः । तस्मादन्नसमं रत्नं न भूतं न भविष्यति ॥१०९॥ पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा ऽभिधीयते ॥११०॥
सर्वस्य गात्रस्य शिरः प्रधानं सर्वेन्द्रियाणां नयनं प्रधानम् ।
सर्वोषधीनामशनं प्रधानं सर्वेषु पेयेषु पयः प्रधानम् ॥१११॥ तुरगशतसहस्रं गोकुलं भूमिदानं कनकरजतप्राप्तं मेदिनी सागरान्ता ।
सुरपतिरतिमानं कोटिकन्याप्रदानं न हि भवति समानं अन्नदानैः प्रधानम् ॥ ११२ ॥ ददस्थाऽन्नं ददखाऽन्नं ददस्खाऽन्नं युधिष्ठिर ! | सद्यस्तुष्टिकरं लोके किं दत्तेनाऽपरेण ते ॥११३॥ सद्गीतानवगीतरूपरमणीकपूरकस्तूरिकाश्रीखण्डागुरुवाजिवारणमणिस्वर्णादिवस्तुव्रजः। भोगे यस्य सुखाकरोति विरहे दुःखाकरोत्यङ्गिनां सद्यः प्रीतिकरं तदन्नमनघं यत्नेन देयं बुधैः ॥११॥
अन्नदानप्रबन्धः। भोजनेष्वपि रङ्गः सोजनेनैव, न तु वस्त्रादिप्रदानैः। लोकोक्तिः-रंग धानि कि पानि । तथा जगडूसाधुनाऽपि तोतलकसोलाभिधस्वपितृप्रोक्तं जगऊआ इत्यभिधानं दुष्काले जगजनजीवनाऽन्नप्रदानेन सत्यं कृतम् । यथा-पत्तने एकदा साहजगडूर्भोजनार्थमुपविष्टः । तस्मिन्नवसरे कश्चिद् वृद्धः सिद्धपुरुषो गृह
00000000000००००००००००००००००००००००००००००००००००००