________________
०००००००
Popd
000000000000००००००००००००००००००००००००००
गतस्तत्र तेन दृष्टोऽश्वः, समानीतश्च कथितो गृहपतये । ततस्तेन गृहपतिनाऽचिन्ति- अये ! वतिना व्याजेन ममोपकारः कृतः। ततः परिव्राजकमाहूय प्रोक्तम्-भद्र ! व्रज त्वं यस्मादुपकारिणि दत्तं दानं निष्फलमुपजायते ॥ मुहाजीवीत्युदाहरणं यथा-कश्चिन्नृपतिर्जातवैराग्यो धर्मपरीक्षां चक्रे-को वाऽनिसृष्टं । भुङ्क्ते १, ततस्तं परीक्षे; इति संप्रधार्य पुरुषानादिदेश- राजा मोदकान् प्रयच्छति, समागत्य गृह्यताम् । इत्याकर्ण्य उद्घोषणाम् , जग्मुः काटिकप्रभृतयो जनाः मोदकार्थिनः । पृष्टाश्च ते भूभुजा-केन भवन्तो जीवन्ति । तत्रैकेनोक्तम्-अहं तावन्मुखेन । अपरेणोक्तम्-अहं पादाभ्याम्। अपरेणोक्तम्--अहं हस्ताभ्याम् । अन्येनोक्तमहं लोकानुग्रहेण । जैनक्षुल्लक आकारितः पृष्टस्तेनोक्तम्-अहं मुधेति । ततस्तान् नृपतिः पुनर्जगादकथमिति। ततः प्रथमः प्राह-अहं तावत् कथको जनानां रामायणादिकथा कथयामि, तेन जीवामि। द्वितीयः प्राह-अहं लेखवाहको घटीद्वयमध्ये योजनं लङ्घयामि,तेनाहं पादाभ्यां जीवामि । तृतीयः प्राह-अहं लेखकोऽतो हस्ताभ्यां जीवामि । भिक्षु गोक्तम्-अहं लोकानुग्रहेण जीवामि । क्षुलकसाधुनोक्तम्-संसारासारतां विलोक्य महेभ्यसुतः प्रव्रजितः प्रतिपद्य जैनधर्मम् । ततो मुधिकया यथोपलब्धेनाऽऽहारेण जीवामि । इति श्रुत्वा तद्भाषितमहो ! एष धर्मः सर्वदुःखप्रमोक्षसाधक इति निश्चित्याऽऽचार्यसमीपे प्रतिबुद्धो राज्ये पुत्रं संस्थाप्य