________________
1000०००००००००००००००००००००००००००००००००0000000000000000000
जिणभवणबिम्बपुत्थयसङ्घसरूवाइं सत्त खित्ताई । जुन्नुहारो पोसहसाला साहारणं दसहा ॥ ९६ ॥ एवं विधेषु सुपात्रेषु दत्तं बहुफलं भवति ॥
अभिगम्य कृते दानं त्रेताखाहूय दीयते । द्वापरे प्रार्थनादानं सेवादानं कलौ युगे ॥ ९७ ॥ इत्याद्यनेकदृष्टान्तपरम्परां श्रुत्वा श्रीसुपात्रदानं मोक्षस्वर्गचक्रित्वादिसम्पन्निदानं समाराधनीयम् । दुल्लहा उ मुहादाई मुहाजीवी वि दुल्लहा । मुहादाई मुहाजीवी दोवि गच्छंति सुग्गइ ॥ ९८ ॥ त्ति बेमि ॥
मुहादाई दुर्लभः, अत्र भागवतोदाहरणं यथा-कश्चित् परिव्राजकः कमपि भक्तिमन्तं भागवतमवादीत्तव गृहे वर्षासमये तिष्ठामि । तेनोक्तम्-यदि प्रत्युपकारं न करोषि, तदा तिष्ठ । तेन प्रतिपन्नम्। ततः प्रदत्तस्तस्मै समाश्रयः । भोजनादिभिर्भक्तिं चकार तस्य गृहपतिः । अतिक्रान्ते च कियति काले चौरैस्तस्याश्वोऽपहतः । प्रभातं जातमिति विचिन्त्य न शक्तास्तमश्वं ग्रहीतुम् । ततोऽतिवृक्षगहने तं बद्ध्वा तेऽन्यत्र गताः । अत्रान्तरे प्रातरेव स्नातुं परिव्राजकस्तटाकं जगाम । दृष्टश्च तेन सरःसमीपवर्तिन्यां जाल्यामश्वः, प्रत्यभिज्ञातश्च सोयमश्वोऽस्मदुपकारिणो भागवतस्य चौरैर्हतः । ततस्तेन जाल्यां धौतवासो मुक्त्वा स्वस्थानं गला गृहपतिपुरुषाणामने उक्तम्- मम स्नातुमितः सरसि गतस्य जाल्यां धौतवासो विस्मृतः । ततस्तैर्जनः प्रेषितो