________________
300000000००००००००००००००००००००००००००००००००००००००००
तथा दुष्टा अपि पात्रदानतो भोगसौभाग्यभाजनं भवन्ति । यतःप्राणिवेच्छाच्छिदः क्रूराः कारागारनियोगिनः । मृत्वा सत्पात्रदानेन जायन्ते नृपयोषितः ॥ ७४ ॥ तदपि सद्भाववासनावासितचेतसा दत्तं श्रेयस्करम् । यदुक्तम्दातव्यमिति यद् दानं दीयतेऽनुपकारिणे । क्षेत्रे काले च भावे च तद्दानं सात्त्विकं स्मृतम् ॥ ७५ ॥ श्रीशालिभद्रादीनाम् ।
यस्तु प्रत्युपकाराय फलमुद्दिश्य वा पुनः। प्रदीयते परिक्लिष्टं तदानं राजसं स्मृतम् ॥ ७६ ॥ चन्दनबालाप्रातिवेश्मिकवृद्धा निदर्शनम् । क्रोधाद् बलाभियोगाद् वा मनोभावं विनाऽपि वा । यद् दीयते हितं वस्तु तद् दानं तामसं स्मृतम् ॥७७॥ श्रेणिकदासी कपिला, कटुतुम्बदात्री नागश्रीश्च दृष्टान्तः । तथाक्षिप्तकालं कृतावसँ सानुतापं विकत्थितम् । हीयमानमनौचित्यं दानमाहुर्मलीमसम् ॥ ७८ ॥
क्षिप्तकाले भवेन्नारी निर्धना पतिवर्जिता । अपुत्रा च कृतावज्ञे सानुतापे च दुर्भगा ॥ ७९ ॥ विकस्थिते स्यादल्पायुहीयमाने च हीनता । अनौचित्ये भवेद् व्याधिः षट् त्यागाश्च मलीमसाः ॥ ८० ॥
(३३)
nnoooo००००००००००००००००००००००००००००००००००००००००
a