SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 00000000000000000001 बहुमूल्यरत्नानि जाताः । “सत्थुगदाणप्पभावगरयणमयकक्करा जाया" तदनु भोगी सुखी धनी । पात्रे त्यागी गुणे रागी भोगी परजनैः सह । शास्त्रे बोद्धा रणे योद्धा पञ्चाङ्गः पुरुषः स्मृतः ॥ ६८ ॥ प्रासादादिपुण्यकरणीयपरः प्रथितो बभूव । इति सुपात्रे धनसारकथा ॥ तथा धन्योऽष्टभार्यादिभोगपुरन्दरः । श्रीदानधर्माराधनतः समभूत् , सर्वार्थसिद्धौ प्राप्त एकावतारी। एवं कयवन्नादयोऽपि भूयांसो भव्यास्तीर्णाः संसा१. रसागरं सुपात्रदानात् । यदुक्तम् श्रीनाभेयजिनेश्वरो धनभवे श्रेयःश्रियामाश्रयः श्रेयांसः स च मूलदेवनृपतिः श्रीचन्दना नन्दना । धन्योऽयं कृतपुण्यकः शुभमनाः श्रीशालिभद्रादयः सर्वेऽप्युत्तमदानदानविधिना जाता जगद्विश्रुताः ॥६९॥ उत्तमपत्तं साहू मज्झिमपत्वं च सावया भणिया । अविरयसम्मदिट्ठी जहन्नपचं मुणेयव्वं ॥ ७ ॥ तथा मिथ्यादृष्टिसहस्रेषु वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु वरमेको महाव्रती ॥ ७१ ॥ महाव्रतिसहस्रेषु वरमेको हि तात्विकः । तात्त्विकस्य समं पात्रं न भूतो न भविष्यति ॥ ७२ ॥ सत्पात्रं महती श्रद्धा काले देयं यथोचितम् । धर्मसाधनसामग्री बहुपुण्यैरवाप्यते ॥ ७३ ॥ maranvo000000000000000000000000000000660860661
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy