SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 10000000000000000000000000000000000००००००००००००००० अपि च-कालउं वांकउ मुंह कर विरत्तड हूउ हयास । तिणि दीधइ हुइ कवण गुण जं फल देइ पलास ॥८१॥ अनादरो विलम्बश्च वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चाऽपि सद् दानं दूषयन्त्यमी ॥ ८२ ॥ भिउडी उड्ढालोअणा नीआ दिट्ठी परंमुहं वयणं । मोणं कालविलम्बो नक्कारो छविहो होइ ॥ ८३ ॥ भूषणान्यमूनि आनन्दाश्रूणि रोमाञ्चा बहुमानं प्रियं वचः। किंचाऽनुमोदना पात्रदानभूषणपञ्चकम् ॥ ८४ ॥ ददतो युध्यमानस्य वदतः पुलको न चेत् । आत्मनश्च परेषांश्च धिग् त्यागं पौरुषं वचः ॥ ८५ ॥ दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥८६॥ वाणी रसवती यस्य भार्या पुत्रवती सती । लक्ष्मीनिवती यस्य सफलं तस्य जीवितम् ॥ ८७ ॥ किं बहुना ?, कृपणधनानि निष्फलान्येव । यतःशास्त्रैर्निष्प्रतिभस्य किं गतदृशो दीप्रैः प्रदीपैश्च किं किं क्लीबस्य वधूजनैः प्रहरणैः किं कातरस्योल्बणैः । किं वाद्यैर्बधिरस्य भूषणगणैर्लावण्यहीनस्य किं किं भोज्यैवरजर्जरस्य विभवैः प्रौढेरदातुश्च किम् ? ॥ ८८ ॥ चतुरः स एव नरः, यः पात्रे खधनं नियोजयति । यदुक्तम् (३४) Pooooooooooooooooooooooooooooooooo0oooooooooooo
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy