________________
soo
०००००००००००००००००००००००००००००००००००००००
कल्पादधिकं ध्यानभङ्गाद् नार्जयत् । इति सुपात्रदाने जीर्णश्रेष्ठिदृष्टान्तः ॥ ___ कश्चिद् घृतभृते पात्रेऽर्जित्वा सर्वार्थसिद्धिकाम् । मुनिना मा पतेत्युक्तः स्थितो द्वादशताविपे ॥ ५७ ॥
कोल्लरग्रामे चम्पकव्यवहारिणा घृतदानेनाऽऽकण्ठं निभृतपात्रोऽपि गुणाकरमुनिआनी तस्य लाभदर्शनेन न निषेधयति स्म । एवं भाववशात् सर्वार्थसिद्धिमुपार्जयत्। अत्रान्तरे ध्यानभङ्ग:--अहो ! लोभी मुनिरेकाकी किं करिष्यति घृतेनैतावन्मात्रेण ? । ज्ञानिना तच्चित्तभावं ज्ञात्वा मा पत मा पतेत्युक्त्वा पश्चात् पतन द्वादशदेवलोके संस्थापितः। इति सुपात्रघृतदाने चम्पकोदाहरणम् ॥
सम्यग्मिथ्यादृशौ विप्रौ सुपात्रापात्रदानतः । श्रीश्रेणिकगृहे नन्दिषेणसेचनकद्विपौ ॥ ५८ ॥ पूर्वभवे हल्लूरग्रामे देवशर्मसोमशर्माभिधौ द्वौ विप्रौ। देवशर्मा मिथ्यावी, सोमशर्मा श्राद्धो निर्धनः । अपरो धनी कुपात्रत्यागी, तेन लक्षभोजनयागः कृतः । श्राद्धो द्विजः तद्गुहे परिवेषणादिकार्यकरणार्थमवशिष्टाशनभाटकप्रदानेन स्थितः।
अग्निर्विप्रो यमो राजा समुद्र उदरं गृहम् । सप्तैतानि न पूर्यन्ते पूर्यमाणानि नित्यशः ॥ ५९॥ श्राद्धविप्रेणेति विचिन्त्य स्वभागागतं प्रासुकं सकलमपि मोदकादिकं साधुसाधर्मिकेभ्यः प्रदत्तम्। तत्पुण्या
००००००००००००००00000000000000000000000000woomance...