SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 3000000000000०००००००००००००००००००००००००००००००००००००००० नुभावाद् मगधाधिपश्रीश्रेणिकसुतो नन्दिषेणः पञ्चशतराज्ञीपतिः प्रवरभोगफलकर्मोदयः समभूत् , अपरस्तु कुपानपोषात् सेचनकहस्ती बहुभोजनभोगभाग् । इति सुपाने नन्दिषेणकथा ॥ दारिवनाशनं दानं शीलं दुर्गतिनाशनम् । अज्ञाननाशिनी प्रज्ञा भावना भवनाशिनी ॥ ६ ॥ संसारवारांनिधियानपात्रं दानं निदानं सुगतेर्विभाति । सावद्यकारो रथकारजीबो दिवं गतो यद् बलभद्रदानात् ॥ ६१ ॥ श्रीकृष्णवृद्धभ्राता श्रीरामः प्रव्रज्यां लात्वा नगरमध्ये गच्छन् कूपकण्ठस्थस्त्रीभिः सविस्मयं तद्रूपादिसौभाग्यमोहिताभिर्विलोकितः। तदवसरे तद्रूपं विलोकयन्येका घटस्थाने पुत्रकण्ठे रज्जु विक्षेपयन्ती युवतिर्दृष्टा । महर्षिणा निवारिता। धिगस्तु मद्रूपस्य नरकनिदानस्येति ध्यात्वा नगरपामादिषु विहरणार्थ मया नागन्तव्यमित्यभिग्रहं जग्राह । वने तिष्ठति । तत्र यदा कोऽपि सार्थः समागच्छति तदा पारणकम् , नान्यथा। जेणुग्गतवं तत्तं अवराहं दट्ठ निअयरूवस्स । तुङ्गीगिरिवरसिहरे सो राममहामुनी जयउ ॥ ६२ ।। तत्रैकदा रथकारः काष्ठगृहणार्थमागतः, अईकर्तितसर्गशाखाधो भोजनार्थमुपविशन् मृगज्ञापितमार्ग
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy