________________
30000000000000000000000000000000000000000000
कर्मिकाहारदानेनाऽऽकाशात् पाषाणवृष्टिरेव भाविनी, न तु रत्नवृष्टिः । यतःदधिमधुघृतान्यपात्रे क्षिप्तानि यथाऽऽशु नाशमुपयान्ति । एवमपात्रे दत्तानि केवलं नाशमुपयान्ति ॥ ५३ ॥ इति सुपात्रदाने चन्दनबालादृष्टान्तः ॥ तथा मूलदेवो राजपुत्रः सप्तव्यसनी यथा
द्यूतकारे द्यूतकारो वात्तिके वार्तिकश्च सः । तत्कालं स्फाटिकस्येव जग्राह पररूपताम् ॥ ५४ ॥
तदा राज्ञा निष्कासितः देशान्तरे गच्छन् मासोपवासकारकमुनिप्रदत्तकुल्माषपुण्यतः प्रवरं राज्यं प्राप्तः । यथाधन्नाणं खु नराणं कुम्मासा हुन्ति साहुपारणए । गणियं च देवदत्तं दन्तिसहस्सं च रज्जं च ॥ ५५ ॥ इति मूलदेवकुमारदृष्टान्तः ॥ वीरस्य कारयिष्यामि चतुर्मासकपारणम् । जीर्णश्रेष्ठीति सद्ध्यानाद् द्वादशं स्वर्गमार्जयत् ॥ ५६ ॥
राजगृहे नगरे जीर्णश्रेष्ठी श्रीमहावीरस्य चतुर्मासकत्यक्ताहारस्य प्रासुकाहारेण पारणं कारयिष्यामीति शुभध्यानवांश्चतुर्मासकान्ते स्वगृहद्वारे श्रीवीरविलोकनार्थ द्वारे तिष्ठन् शुभध्यानवशात् द्वादशवर्गायुबड्वा तदूर्ध्वमुपार्जयन्नपि अभिनवश्रेष्ठिभिक्षाचरबुद्धिदत्तकुल्माषैः श्रीवीरपारणं देवदुन्दुभिनादेन द्वादश
500000000000000000000000000000000000000000000000000000