________________
3000०००००००००००००००००००००००००००००००००००००० 3000000000
यदपि तदपि शुद्धं चन्दनावत् प्रदत्तं झगिति फलति पात्रेऽन्यत्र नो चार्वपि स्वम् ।
जलधिजलमसारं वारिवाहेऽमृतीस्यात् मधुरमपि हि दुग्धं पन्नगाऽऽस्ये विषं स्यात् ॥ ४९ ॥ पृथ्वीनाथसुता भुजिष्यवरिता जञ्जीरिता मुण्डिता क्षुतक्षामा रुदती विधाय पदयोरन्तर्गतां देहलीम् । कुल्माषान् प्रहरद्वयव्यपगमे मे सूर्पकोणे स्थितान् दद्यात् पारणकं तदा भगवतः सोऽयं महाभिग्रहः ॥५०॥
श्रीवईमानाभिग्रहः षण्मासान्ते परिपूर्णः श्रीचन्दनादत्तकुल्माषपारणात् समजनि । अत्राशीर्वादः| पारणं दुरितवृन्दवारणं कारणं सकलसौख्यसम्पदाम् । तारणं भवपयोधिमज्जने श्रेयसेऽस्तु भवतां जिनेशितुः ॥५१॥ श्रेयांसेन यदर्जितं सुकृतिना पुण्यं युगादेर्जिनात् श्रीबीराद् दधिवाहनस्य सुतया कुल्मापदानेन च । मासान्ते मुनिसत्तमाद् यदमलं श्रीसङ्गमेनार्जितं तत् त्वां भद्र ! विशुद्धवासन ! सदा श्रेयः समागच्छतु ॥५२॥
श्रीचन्दनादत्तकुल्माषसंजातश्रीमहावीरपारणे सुरकृतसा द्वादशरत्नसुवर्णकोटिवृष्टिभरितधनावहश्रेष्ठिगृहं दृष्टा प्रातिवेश्मिक्या चिन्तितम्-यदहो ! कुल्माषदानाद् दुर्बलस्तपस्वी यदि महतीमीयतीमृद्धिं ददाति, तदहं पुष्टाङ्गं लिङ्गिनं सघृतशर्करपरमान्नेन सन्तोष्याऽपारां लक्ष्मी गृह्णामि । इति विचिन्त्य तथा कृत्वा वारं वारमाकाशसंमुखं विलोकयन्ती जरती वीक्ष्य ज्ञाततच्चेतसा वतिना प्रोक्तम्--मुग्धे ! मत्तपसा तव भावेनाऽऽधा
(२५)
000000000000000000000000000000000000000000000000000