SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पूजाभोजनमानशान्तिककलापाणिग्रहस्थापनाचोक्षक्षेपणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । वामोऽहं रणसंमुखाङ्कगणनावामाङ्गशय्यादिकृत् द्यूतादिव्यसनी त्वसौ स तुजगौ चोक्षोऽस्मि न त्वं पुनः ॥४३॥ इति हस्तसंवादः ॥ इक्षोस्त्वं स्वकरग्रहेण महिमां शमादिपूच्चैरदाः श्रेयांसेन स पारणं निजरसेनाढ्यं तवाऽचीकरत् । इत्थं यदिनतः कृतप्रतिकृतिन्यायोऽभवत्तद्दिने लात्वा लम्भनमङ्गनास्तदधुनाऽप्यन्योन्यमायान्ति किम् ॥४४॥ बैशाखशुक्लतृतीया श्रीआदीश्वरप्रथमपारणाद् लोकेऽक्षयतृतीयायुगादिपर्वगुडेक्षुरसमण्डकभोजनलम्भनाद्युत्सववती समभूत् । रिसहेससमं पत्तं निरवज्जं इक्खुरससमं दाणं । सेअंससमो भावो हविज्ज जइ मग्गिअं हुजा ॥४५॥ भुवणं जसेण भयवं ! रसेण भवणं धणेण पडिहत्यं । अप्पा निरुवमसुक्खे सुपत्तदाणं महग्यविअं ॥४६॥ इति सुपात्रदाने श्रीआदिनाथश्रेयांसदृष्टान्तौ वाच्यौ ॥ अन्नदातुरधस्तीर्थङ्करोऽपि कुरुते करम् । तच्च दानं भवेत् पात्रे दत्तं बहुफलं यतः॥ ४७ ॥ कालेऽल्पमपि पात्राय दत्तं भूयो भवेद्यथा । जिनाय चन्दनादत्ता कुल्माषाः कल्मपच्छिदे ॥४८॥ ०००००००००००००००००००००००००००००००००००००००००००००००००००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy