________________
000०..
पात्रक्षेत्रमिदं जीयाच्चिरं यत्रार्थशालयः । धीमद्भिः सकृदप्युप्ताः संलूयन्ते सहस्रशः ॥ ३५ ।। पश्चाद् दत्तं परैर्दत्तं लभ्यते वा न लभ्यते । वहस्तेन तु यहत्तं लभ्यते नाऽत्र संशयः ॥ ३६ ॥ अत्रार्थे श्रीयुगादिदेवदृष्टान्तः । यथादद्याद् दानं सुपात्रायोन्नताय सुकृती यथा । घृतदानाद् मुनेरासीत् प्रथितः प्रथमो जिनः ॥ ३७॥ आदौ धनभवें येन घृतमेघायितं तथा । जज्ञे यथो:शस्यश्रीः श्रीनाभेयः स वः श्रिये ॥ ३८ ॥ । अन्यस्मादप्यवाप्याऽन्नं संविभज्योपभुज्यताम् । यत्प्रभावादभूच्चक्री भरते भरतेश्वरः ॥ ३९ ॥ पञ्चशतसाधुयोग्याहारविहरणसंविभागकरणपुण्यतः श्रीभरतेश्वरश्वक्री भोगभाजनमभूत् । __ लोकद्वितयमुद्धर्तु पूजयेत् पात्रमुत्तमम् । श्रेयांसेन युगादीशो यथाऽकार्यत पारणम् ॥ ४० ॥ सिरिसेअंसकुमारो निस्सेअससामिओ कह न हुज्जा ? । संवच्छरतवतविओ रिसहो पाराविओ जेण ॥४१॥ ___ अत्र कविघटनाराज्यश्रीभवताऽर्जिताऽर्थिनिवहस्त्यागैः कृतार्थीकृतः सन्तुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु । इत्यब्दं प्रतिबोध्य दक्षिणकरं श्रेयांसतः कारयन् प्रत्यग्रेक्षुरसेन पूर्णमृषभः पायात् स वः श्रीजिनः ॥ ४२ ॥
-30000000000000000000000000000000000000000000000न