________________
000004
००००००००००००००००००000000000000000000
दर्शितं सर्व क्षत्रियाणाम् , भोः! यूयमेवं बदथ- यद मांसं सुलभम् , तदद्य एतावता द्रव्येणाऽपि न प्राप्तम् । ततस्ते लज्जिता मौनमालम्ब्य स्थिताः । अभयकुमारेण सर्वेऽपि हक्किताः-अरे मूर्खाः ! आयिं मांसं सर्वेषामपि वल्लभं भवति। मुधैव यूयमेवं मांसलुब्धाः प्रलपथ । यतः--
अमेध्यमध्ये कीटस्य सुरेन्द्रस्य सुरालये । समाना जीविताकाङ्क्षा समं मृत्युभयं द्वयोः॥ १७ ॥ दुर्योनिमपि संप्राप्तः प्राणी मर्तु न वाञ्छति । स्वादुमन्तो भवन्ति स्म खाहाराः कुत्सिता अपि ॥ १८ ॥ यावन्ति रोमकूपाणि पशुगात्रेषु भारत ! । तावद्वर्षसहस्राणि पच्यन्ते पशुघातकाः ॥ १९ ॥ हेमधेनुधरादीनां दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके यः प्राणिष्वभयप्रदः ॥ २० ॥
इत्यभयदाने अभयकुमारकथा ॥ यस्तु जीवहिंसां करोति, स तु वधबन्धनादि दुःखभाग भवति । तद्यथा
गोपो बब्बूलशूलाग्रप्रोतकोत्थपातकात् । अष्टोत्तरशतं वारान् शूलिकारोपणाद् मृतः ॥ २१ ॥
नागपुरे माधवो गोपाल एकदा गोचारणार्थ गतो महाटव्यां तापात्र्तो बब्बूलतरुतले निषण्णः । मस्तकाद् यूका उत्सङ्गे पतिता दृष्टा । बब्बूलतीक्ष्णशूल्यां निर्दयत्वेन प्रोता, एषा मद्देहसारचौरिणीति विचिन्त्य ।
00000000000००००००००००००००००००००००००००००००००00000000