________________
००००००००००००००००००००००००००००००००
तत्पातकोंदयात् तस्मिन्नेव भवे शूलाप्रोतो मृतः। एवं सप्तोत्तरशतवारं पृथक् पृथग् भवेषु चौर्यादिदोषमासाद्य तथैव शूलादिविडम्बनया मृतः। अष्टोत्तरशततमे भवे स्तोकतत्कर्मोदयात्तापसी दीक्षा प्राप्ता। सर्वदा वनवासी शुष्कपत्रफलभोजी निस्सङ्गव्रतधारी वने तिष्ठति स्म विभङ्गज्ञानवान् । तस्मिन्नवसरे तत्रासन्नचम्पानगरीनरेश्वरनरसिंहपट्टराज्ञीरत्नादेवीरत्नाभरणपेटी चौरेण गृहीता । यामिकाः पदपतयनुसारेण तत्पृष्ठे लग्नाः। चौरो नंष्ट्वा तद्दने तापससमीपे तां मुक्ला वटे चटिला स्थितः । प्राहरिकास्तत्रागताः । सुप्तस्तापसः सरत्नपेटीको धृत्वा भूपतेः पुरो मुक्तः । विभङ्गज्ञानी स्वकृतकर्म गर्हन् मौनी दुष्टनृपेण शूलिकामारोपितः । तत्कर्मक्षयं कृला सुरो जातः । तथा
श्रूयते प्राणिघातेन रौद्रध्यानपरायणौ । सुभूमो ब्रह्मदत्तश्च सप्तमं नरकं गतौ ॥ २२ ॥ किं बहुना ?, स्वहितमिच्छता उभयलोकसौख्यकरमभयदानमाराधनीयम् ॥ अथ सुपात्रदानम्-सु शोभनं पात्रं स्थानं ज्ञानदर्शनचारित्रतपःक्षमाशमशीलदमसंयमादीनां गुणानाम् । यहा, सु अतिशयेन पापात् त्रायते इति सुपात्रम् । यतः
पाकारेणोच्यते पापं कारस्त्राणवाचकः । अक्षरद्वयसंयोगे पात्रमाहुर्मनीषिणः ॥ २३ ॥
:०००००००००००००००००००००००००००००००००००००००००००००००००००००
+000000000000000000000