SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ -00000000000०००००००००००००००००००००००००००००००००००००००००० 8 नलिनीगुल्मविमाने समुत्पन्नः । तदुपसर्गस्थाने तत्सुतेन महाकालः प्रासादः कारितः ॥ सोऊण गुणिज्जतं सुहत्थिणा नलिणगुम्ममञ्झयणं । तत्कालं पव्वइओ चइत्तु भज्जाउ बत्तीसं ॥१५॥ तिहिं जामेहिं सिवाए अवच्चसहिआइ विहिअउवसग्गो। साहिअकज्जो निअगेहिं पूइओ अवन्तिसुकुमालो ॥१६॥ उज्जयिन्यां महाकालप्रासादः सम्प्रत्यापि श्रीसिद्धसेनरचितकल्याणमन्दिरप्रभावभवनमस्ति । इत्यभयदानोपरि अवन्तीसुकुमालकथा ॥ एकदा श्रेणिकसभायां श्रीअभयकुमारादिसमुदाययुतायां श्रेणिकेनाऽभाणि-संप्रति नगरमध्ये किं वस्तु सुलभमस्ति ? । तत्र क्षत्रियाः प्रोचुः- सांप्रतं पलं सुलभमस्ति । ते निर्दया एवं वदन्ति स्म । अभयकुमारेण चिन्तितम्- अहमद्यैषां परीक्षां करिष्यामि । ततो रात्रौ सर्वक्षत्रियगृहेषु पृथक् पृथक् गलाऽवोचत्-भो राजपुत्राः ! अद्य राज्ञो महाव्याधिरुत्पन्नोऽस्ति । वैद्यैर्बहुभिरप्यौषधैश्चिकित्सितोऽपि कोऽपि गुणो न दृश्यते । किन्तु यदि मनुष्यसत्कं कालिजमांसं टङ्कद्वयप्रमाणं भवेत् , तदा जीवेत् , अन्यथा मरिप्यत्येव । यूयं तदीयग्रासोपजीविन एतावदपि न करिष्यथ । तत एकेनोक्तम्- दीनारसहस्रं गृहाण, परं मां मुञ्च, अन्यत्र गच्छ । गृहीतं द्रव्यम् , गतः पुनरन्यगृहे, तथैव चोक्तम् । तेनापि दीनारसहस्रमपितम् , न तु मांसम् । एवमपरापरगृहेषु सकलां रात्रिं परिभ्रम्य मीलिता दीनाराणां लक्षाः। प्रभाते सभायां 00000000000000000000000000000000000000000000000000000 -
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy