SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000000000000000 किमु देयमदेयं वा कृपाभरवतां सताम् ? । यथा मेघरथः प्राणान् ददौ त्राणाय पक्षिणः ॥ ११ ॥ श्रीशान्तिनाथेन पूर्वभवे मेघरथाभिधानेन पारापतरक्षणाय श्येनसन्तोषाय स्खमांसं दत्त्वा त्रैलोक्येऽपि करुणासागरत्वं लेभे । तथा सुमेरुहस्ती शशकाऽभयदानप्रभावतः । श्रेणिकस्य सुतो जज्ञे मेघाख्यो मगधेशितुः ॥ १२ ॥ ___ विन्ध्याचलाटव्यां सुमेरुः करी सप्तशतहस्तिनीपतिः दवं दृष्टा संजातजातिस्मरणो दृष्टदवदग्धपूर्वभव| व्यथोत्पन्नभीतिः वर्षाकाले सर्वतृणलतावृक्षोन्मूलनेन योजनस्थण्डिलं चकार। तत्रैकदा दवो लग्नः। करी सपरिवारस्तत्र स्थितः। मृगादयोऽप्यरण्यजा जीवाः समागताः। करिणा पादः कण्डूयनार्थमुत्पाटितः। तदैकः शशक्तः परैः क्षेप्यमाणः करिपादस्थाने स्थितः । करिणोत्पन्नकारुण्येन भूमौ पादो न मुक्तः । त्रिदिनी तथा स्थितः। दवे शान्ते स्वस्थानप्राप्तेषु जीवेषु पादो मुक्तः। परं रुधिरापूर्णः पतितः । क्षुत्तृषार्तो मृतः। तत्पुण्यप्रभावेण मगधा| धिपश्रीश्रेणिकभार्याधारिणीपुत्रः मेघवृष्टिदोहदो मेघकुमारः प्रभूतभाग्यलभ्यभोगभाजनमभूत् । काले दीक्षां लात्वा विजयविमाने एकावतारी सुरः समभूत् ॥ ____ तथा चौरोऽन्यराज्ञीभिर्लेभे वस्त्राद्यलङ्कृतः। न रतिं लघुराश्या तु प्रदत्ताभयतो यथा ॥ १३ ॥ (१५) 5000000००००न्न
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy