________________
00000000000000000000000000000000
जयपुरे मकरकेतुराजेन कश्चिच्चौरो गृहीत्वा बद्धः। शूलिकारोपणाय चालितः। पट्टराज्ञीकमलया दिवसमेकं मोचितः । भोजनवस्त्रताम्बूलादिना सत्कृत्य भूपतेः समर्पितः। स्पईया द्वितीयदिवसेऽपरया। एवं सप्तराज्ञीभिदिनमेकं मोचयित्वा पश्चादर्पितश्च । अष्टमदिवसेऽपमानगृहीतग्रामग्रासशृङ्गारया सौभाग्यदेव्या विनयेन नृपमानसं रञ्जयित्वाऽभयं दापयित्वा खल्पसामान्याहारवस्त्रावार्जतोऽपि यावज्जीवं मोचितश्चौरो निर्वृति लम्भितः। नृत्यगीतविनोदहर्षप्रकर्षभागभूत् । भूपेन पृष्टम्, भोः! कस्मादद्य सामान्यवस्त्रालङ्कृतोऽपि नृत्यसि । तेनोक्तम्, स्वामिन् ! अद्य यावत् राज्ञीभिभृशमावर्जितोऽपि मरणभीत्या व्याघ्रसमीपबद्ध हरितयवभोजिमेषवत् मया दुःखमेवानुभतम् । अद्य तु शुष्कनीरसतृणप्रायसामान्याहारेणाऽपि व्यवहारिगृहबद्धगोवत्सवत् सुखमभयदानादनुभवामि, तेन नृत्यन्नस्मि। इत्यभयदाने सौभाग्यदेवीदृष्टान्तः॥ जयपुरे धनाभिधाऽऽरामिकेण पञ्च पूतरा दयापरिणामेन रक्षिताः। काले मृत्वा कुलपुत्रको जातः। बाल्ये मातृपितृमरणम् । देशान्तरे गच्छन् रात्रावटव्यां वटवृक्षाधः स्थितः। तत्रस्थैः पञ्चभिर्यक्षैः स दृष्टः । पूर्वभवोपकारीति ज्ञात्वा कथितमस्य, पञ्चमादेवसे राज्यं भविष्यति । तच्छ्वा हृष्टः । पञ्चमदिने मृतापुत्रनरपालनृपतेर्वाराणसीनगरीराज्यं जातम् । अमात्यारोपितराज्यभारः सुखान्येवानुभवन् । सीमस्थै राज्योच्छेदाय रुद्धः । द्यूतक्रीडां कुर्वतोऽमात्यै रोधखरूपं कथितम् । तथापि न मुञ्चति द्यूतम् ।
(१८)
10000000000000000000०००००००००००००0000000000000000000