SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ aman - 000000000000000000000000000 अभयं सर्वसत्त्वेभ्यो यो ददाति दयापरः । तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन ॥ ५॥ इह लोकेऽभयदानात् श्रेयः दयालुः कृपापारावार इत्यादिकीर्तिः, परलोके तु राज्यऋद्धिभोगपरिवारादि फलं भवति । यदुक्तम् दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्व, किमन्यत् , कामदैव सा ॥ ६ ॥ ये तु हिंसां धर्मबुद्ध्या कुर्वन्ति तेषां न यः, न सुकृतम् । यतः-- हिंसा विघ्नाय जायेत विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा कृता कुलविनाशिनी॥ ७ ॥ यदि ग्रावा तोये तरति तरणिर्यादयति प्रतीच्यां सप्तार्चिर्यदि भजति शैत्यं कथमपि । यदि मापीठं स्यादुपरि सकलस्यापि जगतः प्रसूते सत्त्वानां तदपि न वधः कापि सुकृतम् ॥ ८ ॥ सकमलवनमग्नेर्वासरं भाखदस्तादमृतमुरगवक्त्रात् साधुवादं विवादात् । रुगपगममजीर्णाज्जीवितं कालकूटादभिलषति वधाद् यः प्राणिनां धर्ममिच्छेत्॥ ९॥ भूयांसोऽपि भव्या अभयदानधर्माराधनतः शिवपुरं प्रापुः । यथा-- स श्रीशान्तिजिनः शान्ति संश्रितानां तनोतु वः । येन श्येनाय दत्त्वा खं पलं त्रातः कपोतकः ॥१०॥ woo0ooooooooooooo H
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy