SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ उत्तमफलं सुपात्रे दानं विभवस्य मध्यमं भोगः । अधमं व्यसनव्ययगतिरधमाधममवनिविन्यासः ॥५४॥ अपि च-अधः क्षिपन्ति कृपणा वित्तं तत्र यियासवः । सन्तस्तु गुरुचैत्यादौ यदुच्चैःपदकाङ्गिणः ॥५५॥ अतः कारणाद् भो भव्याः! भाग्यवद्भिर्भवद्भिः सुपात्रदानधर्मविधौ सर्वदाऽप्युद्यमः कार्यः॥ इति श्रीसुपात्रदानोपदेशः ॥ अथ दानफलोपदेशमाहअभयं सुपत्तदाणं अणुकम्पाउचिअकित्तिदाणं च । दोहि विमुक्खो भणिओ तिन्नि वि भोगाइयं दिन्ति ॥१॥ इह जगति दानं पञ्चविधं प्रसिद्धम् , तत्र प्रथममभयदानं वधबन्धादिभयभीतानां जन्तूनां प्राणत्राणादिना निर्भयकरणमभयदानम् । यदुक्तम् जीवानां रक्षणं श्रेष्ठं जीवा जावितकाङ्क्षिणः । तस्मात् समस्तदानेभ्योऽभयदानं प्रशस्यते ॥ २॥ यो दद्यात् काञ्चनं मेरुं कृत्नां चैव वसुन्धराम् । एकस्य जीवितं दद्याद् न च तुल्यं युधिष्ठिर ! ॥३॥ अहिंसा सर्वजीवानां सर्वज्ञैः परिभाषितम् । इदं हि मूलं धर्मस्य शेषस्तस्यैव विस्तरः ॥ ४ ॥ 000000000000000000000000000000000000000000000000०००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy