SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ कृष्णद्वैपायनेनेोक्तम्-न विद्यया केवलया तपसाऽपि च पात्रता । यत्र विद्याचरित्रे च तद्धि पात्रं प्रचक्षते ॥४९॥ अत एव पात्रे धनवितरणं श्रेयस्करम् । यदुक्तम् — सा लक्ष्मीर्या धर्मकर्मोपयुक्ता सा लक्ष्मीर्या बन्धुवर्गोपभोग्या । सा लक्ष्मीर्या खाङ्गभोगप्रसङ्गा याऽन्या मान्या सा तु लक्ष्मीरलक्ष्मीः ॥ ५० ॥ पात्रे न्यायार्जितं क्षेत्रकालभावैरदूषितम् । देयं धर्मार्थिना दानं विना कीर्त्यादिकारणम् ॥ ५१ ॥ प्रायो दानं सकारणं भवति । यतः दयसङ्ग्रहभयकारणियलज्जागारवअधम्मधम्मे य । काहिइ कयमणेण दाणमेयं भवे दसहा ॥ ५२ ॥ सरोगभिक्षाचरादीनाम्, सहायादीनाम्, दुर्जनानाम्, पुत्रादिवियोगे, लोकलज्जया, भट्टचारणादीनाम्, हिंस्राणाम्, साध्वादिसकलसङ्घस्य, प्रत्युपकारवाञ्छया, प्रागनेन बहूपकृतम्, इति दानं दशप्रकारम् । तत्र च त्रयमैहलौकिकम् । यतः भयं लोभस्तथा स्नेहस्त्रयो दानस्य हेतवः । ये दातारस्त्रयं मुक्त्वा धन्यास्ते मुक्तिगामिनः ॥ ५३ ॥ किं बहुना ? दानाभरणं सुपात्रम् । यतः (१४) 0000000 :
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy