________________
300000000000000000000000000000000000000000000000
किञ्चआमे निम्बे सुतीर्थे कचवरनिचये शुक्तिमध्येऽहिवक्त्रे औषध्यादौ विषद्रौ गुरुसरसि गिरौ पाण्डुभूकृष्णभूम्योः । इक्षुक्षेत्रे कषायगुमवनगहने मेघमुक्तं यथाम्भस्तद्वत् पात्रे कुपात्रे नयजनिजधनं दत्तमायाति पाकम् ॥ ४४ ॥
पात्रमपि तदेव भव्यं यन्नामानुरूपपरिणामम् , नान्यत् । यदुक्तम्-- भौमे मङ्गलनाम विष्टिविषये भद्रा कणानां क्षये वृद्धिः शीतलिकेति तीव्रपिटके राजा रजःपर्वणि । मिष्टत्वं लवणे विषे च मधुरं रैकण्टिकाद्यं यथा पात्रत्वं च पणाङ्गनासु रुचिरं नाम्ना तथा नार्थतः ॥ ४५ ॥
पात्रं तदुच्यते यत्तरणतारणप्रवणम् । यथा-मजनशीलं तानं पात्रीभूतं स्वयं तरति, तारयति च स्वाश्रितवस्तुजातम् । पात्रपरीक्षायामप्येवं प्रोक्तमस्ति, यथा-युधिष्ठिरभीमसंवादे हस्तिनागपुरे युधिष्ठिरनृपे सदास सिंहासनोपविष्टे द्वारस्थभीमेनागत्य विज्ञप्तम्
मूर्खस्तपस्वी राजेन्द्र ! विद्वांश्च वृपलीपतिः । उभौ तौ तिष्ठतो द्वारे कस्य दानं प्रदीयते ? ॥४६॥ युधिष्ठिर उवाच-सुखासेव्यं तपो भीम ! विद्या कष्टदुराचरी। विद्वांसं पूजयिष्यामि तपोभिः किं प्रयोजनम् ॥४७॥ भीमेनोक्तम्-श्वानचर्मगता गङ्गा क्षीरं मद्यघटस्थितम् । कुपात्रे पतिता विद्या किं करोति युधिष्ठिर ! ?॥४८॥
(१३)
0000000000000000000००००००००००००००००००००००००००००००।