________________
इक्षुक्षेत्रं समुद्रश्च यानं पाषाण एवं च । प्रसादो भूभुजां नन्ति क्षणादेव दरिद्रताम् ॥ ६ ॥
दृष्टान्ता मं० उदयन- वाग्भट -- मं० करीर - वस्तुपाल -- तेजपाल -- झांझणदेप्रभृतीनां वाच्याः । यथा सुपुत्रः पूर्वजानां स्वकुलस्य च ऋद्धिं ख्यातिं च प्रकुरुते । यतः-
शर्वरीदीपकश्चन्द्रः प्रभाते रविदीपकः । त्रैलोक्यदीपको धर्मः सुपुत्रः कुलदीपकः ॥ ७ ॥ सौरभाय भवन्त्येके चन्दना इव नन्दनाः । कुलच्छित्त्यै भवन्त्येके वालका इव बालकाः ॥ ८ ॥
दृष्टान्तः श्रीयुगादिदेवश्री वर्धमान श्रीरामादीनाम् ॥ तथा श्रीजिनधर्मो भव्यानां भुक्तिं राज्यऋद्धिपरिवारादिकाम्, परलोके मुक्ति च ददाति दृष्टान्ताः पाण्डवसगरादीनां वाच्याः ॥ इति धर्मोपदेशः ७ ॥
राज्ञः प्रसादो दिव्यास्त्रं वाणिज्यं हस्तिरत्नयोः । जैनधर्मस्तथैकोऽपि महालाभाय जायते ॥ १ ॥ यथा राजप्रसादस्तीर्थोद्धारयात्रादिदुस्साध्यकार्यसाधकत्वेन महालाभदो भवति । यतः
कइ प्रभु थs अप कै प्रभु कीजै हच्छि । कज्ज करे वामाण सह बीजो मग्ग न अच्छि ॥२ सुप्रसन्नवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कलीरामप्रभसूराणां श्लोकगा