SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ | यात्राप्रसङ्गेन जगाम येषु पुरेषु पौरोच्छिततोरणेषु । तेषामधीशैः स विशेषमेष संमान्यमानः सममानयत्तान् ॥७॥ A समुद्धृतैर्जीर्णजिनेन्द्रहम्नवैः सरोभिश्च सरोजरम्यैः । प्रस्थानमार्गः सचिवस्य सोऽभूदजानतामप्युपलक्षणीयः॥८॥ यावन्ति बिम्बानि जिनेश्वराणां श्वेताम्बराणां च कदम्बकानि । ' मार्गेषु तेषां कलयन् स पूजां शत्रुञ्जयं शत्रुजयी जगाम ॥ ९॥ तत्रादिनाथस्य नमस्यमूर्तेः स्नानं च पूजां च विधाय मन्त्री। पुरः कुरङ्गीनयनाः प्रमोदनृत्यन्मना नृत्यमकारयत् सः ॥ १० ॥ घनैः प्रसूनैर्वसनैरनूनैः पत्रैः पवित्रैरशनैः प्रधानैः । नृत्तबधूनां च गृहीतचित्तैर्गानैः सदानैर्विततान पूजाम्॥११॥ इत्यादिकीर्तिकौमुदीकाव्यमध्यगतयात्रावर्णन८१ काव्यानि वाच्यानि । तत्र प्रथमयानायां सं० १२८५ | कृतायामयं विस्तरः। २४ दन्तमया देवालयाः,१२० काष्ठदेवालयाः,४५ शतानि शकटानाम् ,१८ शतानि वाहिन्यः, ७०० सुखासनानि, पञ्चशतानि पालुषिकानाम् , ७०० आचार्याः, द्विसहस्पश्वेताम्बरतपोधनाः, ११शतदिगम्बराः १९ शतश्रीकर्यः, ४ सहस्रतुरङ्गमाः, द्विसहस्रोष्ट्राः, सप्तलक्षमनुष्याः। इदं प्रथमयात्राप्रमाणम् । तदनु प्रवर्धमानप्रमाणाऽनेतनयात्रा ज्ञेयाः ॥ इति यात्रोपदेशः ५॥ (२४७) 0000000000000000000000000000000000000000000000000 500०००००००००००००00000000000000000000000000००० ००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy