________________
1
एअं जम्मस्स फलं सारं विहवस्स इत्तियं चैव । जं अचिज्जइ गंतुं सित्तुंजे रिसहतित्थय ॥ १ ॥ छट्ठेणं भत्तेणं अपाणएणं च सत्त जत्ताओ । जो कुणइ सित्तुंजे सो तईअभवे लहइ सिद्धिं ॥ २ ॥
वितं सुवन्नभूमीभूसणदाणेण अन्नतित्थेसु । जं पावइ पुन्नफलं पूआन्हवणेण सित्तुंजे ॥ ३ ॥
दृष्टान्तो यथा-सुराष्ट्रायां गोमण्डलग्रामवास्तव्यः सप्तपुत्रः, सप्तशत मुभटः, १३ शतशकटसङ्घ १३ कोटिखर्णपतिः सं० धाराकः श्रीशत्रुञ्जययात्रां कृत्वा ५० वर्षावधि दिगम्वराधिष्ठितरैवतयात्रावसरे खङ्गारदुर्गपसैन्यैः सह युद्धे७पुत्र७शतसुभटक्षये श्रीवप्पभट्टिप्रतिबोधितं गोपगिरौ श्रीआमभूपतिं ज्ञात्वा तस्याऽऽमनृपस्य सूरिपार्श्व व्याख्यानोपविष्टस्याष्टश्राद्धैः समं सं० धाराकः समागतः। तेन दिगम्बरगृहीततीर्थस्वरूपं कथितम् । गुरुभिस्तन्महिमोक्तौ आमनृपेण गिरिनारनेमिवन्दनं बिना भोजनाभिग्रहो गृहीतस्तदनु सहस्रश्राद्धैरपि स एवाभिग्रहो गृहीतस्ततः संघश्चचाल । १ लक्षं पौष्टिकानाम्, एकलक्षं तुरङ्गमाणाम्, ७ शतानि गजानाम्, विंशतिसहस्राणि करभाणाम्, लक्षत्रयं पादचाराणाम्, विंशतिसहस्राणि श्रावककुलानाम्, ३२उपवासैः स्तम्भतीर्थे प्राप्तः । राज्ञः शरीरं खिन्नम् । गुरुभिरम्बिकां प्रत्यक्षीकृत्य अपापमठात् प्रतिमैका आनीता । नृपाभिग्रहो मुत्कलो जातः, मासमेकं दिगम्बरैः सह वादः, पञ्चादम्बिकया उज्जित सेलसिहरेतिगाथया विवादो भग्नः; तीर्थ लाला दिगम्बरधेताम्बरजिनार्चानां
(२४८)